पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/५५

एतत् पृष्ठम् परिष्कृतम् अस्ति
समासप्रकरणम्]
५६९
बालमनोरमा

८४३ । सङ्खयाव्ययासन्नादूराधिकसङ्खयाः सङ्खयेये । (२-२-२५)

सङ्कयेयार्थया सङ्ख्यया अव्ययादय: समस्यन्ते स बहुव्रीहिः । दशानां समीपे ये सन्ति ते उपदशाः । नव एकादश वेत्यर्थः । * बहुव्रीहौ सङ्खयेये - (सू ८५१) इति वक्ष्यमाणो डच् ।

८४४ । ति विंशतेर्डिति । (६-४-१४२)

विंशतेर्भस्य तिशब्दस्य लोपः स्याड्डिति । आसन्नविंशा: । विंशतेरासन्ना

इति तु वार्तिकमिति भावः । एतञ्च “न कोपधायाः' इति सूत्रे भाष्ये स्पष्टम् । सङ्खयया ॥ शेषग्रहणम् “ अनेकमन्यपदार्थे' इति च निवृत्तौ बहुव्रीहिरित्यनुवर्तते । 'सुप्सुपा' इति च । सङ्खयेये इत्येतत्सङ्खययेत्यत्रान्वेति । सङ्खया परिच्छेद्यं सङ्खयेयम्, तत्रार्थे विद्यमानया सङ्खययेति लभ्यते । सङ्खयाशब्दश्चायं नतु स्वरूपपरः, किन्तु एकादिशतान्तशब्दपरः । तदाह । सङ्खयेयार्थया सङ्खययेति ॥ एकादिशब्देन सुबन्तेनेत्यर्थः । अव्ययादय इति । अव्यय आसन्न अदूर अधिक सङ्खया एते सुबन्ता इत्यर्थः । अत्रापि सङ्खयाशब्दो न स्वरूपपरः, किन्तु एकादिशब्दपर एव । अत्र इदमवधेयम् । विंशतेः प्रागेकादिशब्दाः सङ्खये येषु वर्तन्ते । दशादयो नित्यबहुवचनान्ता विशेष्यलिङ्गाश्च । विंशत्यादिशब्दास्तु नित्यमेकवचना न्ताः सङ्कयायां सङ्खयेये च वर्तन्ते नवतिपर्यन्ताः नित्यस्त्रीलिङ्गाश्च । यथा विंशतिर्ब्रह्मणाः ब्राह्मणानां विंशतिरिति । विंशत्यादिस्सङ्खया । ततः द्वित्वबहुवचने स्तः । यथा गवां द्वे विंशती इति, चत्वारिंशदिति गम्यते । गवां तिस्रः विंशतय इति, षष्टिरिति गम्यते । “विंशत्याद्यास्स दैकत्वे सङ्खयास्सङ्खयेयसङ्खययोः । सङ्खयार्थे द्विवहुत्वे स्तस्तासु चानवतेस्त्रियः' इत्यमरः । अत्रा व्ययस्य उदाहरति । दशानां समीपे ये सन्ति ते उपद्शा इति ॥ उपशब्दस्य समीपार्थकस्याव्ययीभाव उक्तः । इह तु समीपवर्तिनि उपशब्दो वर्तते । दशसमीपवर्तिनः इत्यर्थः । ततश्च अन्यपदार्थवृतित्वाभावादप्रथमान्तत्वाच्च ‘अनेकमन्यपदार्थे' इत्यप्राप्ते वचनामिदम् । तस्य दशानां वृक्षादीनां समीपवर्तिनो गवादय इत्यर्थभ्रमं वारयति । नवैकादश वेत्यर्थः इति ॥ सामीप्यमिह दशन्शब्दार्थगतदशत्वापेक्षम् । एकार्थीभावबलात् । तथाच दशत्वसमीप वर्तिसङ्खयावत्सु उपशब्द इति फलति । ततश्च दशत्वसमीपवर्तिसङ्खयावन्त इति बोधपर्यवसानं भवति । डजिति ॥ उपदशन्शब्दात् डवि “नस्तद्धिते' इति टिलोप इति भावः । आसन्न शब्दस्य विंशतिशब्देन षष्ठयन्तेन समासे डचि कृते ‘टेः' इति इकारमात्रस्य लोपे प्राप्ते आह । ति विंशतेर्डिति ॥ तीति लुप्तषष्ठीकम् । ‘भस्य’ इत्यधिकृतम् । ‘अल्लोपोऽनः' इत्यस्माल्लोपः इत्यनुवर्तते । तदाह । विंशतेर्भस्येति ॥ “ अलोऽन्त्यस्य' इति न भवति । 'नानर्थकेऽलो ऽन्त्यविधिः’ इत्युक्तेः । आासन्नविंशा इति ॥ विंशतिसङ्खयासन्नसङ्खयावन्त इत्यर्थः । डचि कृते आसन्नविंशति-अ-इति स्थिते, तिलोपे सवर्णदीर्घं बाधित्वा “अतो गुणे' इति पररूपे, 72