पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/५६

एतत् पृष्ठम् परिष्कृतम् अस्ति
५७०
[बहुव्रीहि
सिद्धान्तकौमुदीसहिता

इत्यर्थः । अदूरत्रिंशाः । अधिकचत्वारिंशाः । द्वौ वा त्रयो वा द्वित्राः । द्विरा वृत्ता: दश द्विदशाः । विंशतिरित्यर्थः ।

८४५ ॥ दिङ्नामान्यन्तराले । (२-२-२६)

दिशो नामान्यन्तराले वाच्ये प्राग्वत् । दक्षिणस्याश्च पूर्वस्याश्च दिशो ऽन्तरालं दक्षिणपूर्वा । नामग्रहणाद्यौगिकानां न । ऐन्द्रयाश्च कौबेर्याश्चान्तरालं

८४६ । तत्र तेनेदमिति सरूपे । (२-२-२७)


आसन्नविंशशब्दः अदन्तः । * उत्तरपदत्वेचापदादिविधौ प्रतिषेधः' इति प्रत्ययलक्षणाभावेना पदत्वात् । अथादूरशब्दस्योदाहरति । अदूरत्रिंशा इति ॥ त्रिंशतः अदूराः इति विग्रहः । त्रिंशत्सङ्खयायाः अदूरसङ्खयावन्तः इत्यर्थः । डचि टिलोपः । अधिकस्योदाहरति । अधिक चत्वारिंशाः इति ॥ चत्वारिंशतोऽधिकाः इति विग्रहः । चत्वारिंशत्सङ्खयाया अधिकसङ्खया वन्तः इत्यर्थः । डाचि टिलोपः । सङ्खयावाचकशब्दस्य सङ्खयावाचकशब्देन समासमुदाहरति । द्वैौ वा त्रयो वा द्वित्राः इति ॥ वार्थे बहुव्रीहिः । द्वित्र्यन्यतरा इत्यर्थः । डचि टिलोपः । ननु द्वित्रा आनीयन्तामित्युक्ते कदाचित् द्वावानयति, तदा कथं बहुवचनामिति चेत्, अत्र भाष्ये अनिश्चये बहुवचनं प्रयोक्तव्यम्' इति वचनात् समाहितम् । तथा कार्यान्वये विकल्पः शब्दातु नियमेन कोटिद्वयोपस्थितिः। तदुपस्थित्यनन्तरमन्यतरानयनमिच्छया। अत: शब्दान्नियमेन पञ्चानामुपस्थितिरित्यपि समाहितम् । नच वार्थप्राधान्यात् “ अनेकमन्यपदार्थे' इत्येवात्र सिद्ध मिति वाच्यम्, “शेषाद्विभाषा' इति कबभावार्थकत्वात् । स हि कप् “अनेकमन्यपदार्थे' इति विहितबहुव्रीहावेव प्रवर्तते इति भाष्ये स्पष्टम् । अथ सङ्खयायास्सङ्खया समासे उदाहरणा न्तरमाह । द्विरावृत्ता दश द्विदशाः इति ॥ शब्दशक्तिस्वाभाव्यात्सुजर्थान्तर्भावेन पूर्व पदस्य वृत्त्याश्रयणात् समासे सुपो न श्रवणमिति भाष्ये स्पष्टम् । द्वित्वसङ्खयाकदशत्ववन्तः इत्यर्थः । फलितमाह । विंशतिरित्यर्थः इति ॥ दिङ्नामानि ॥ नामानीत्यनन्तरं सु बन्तानि परस्परमिति शेषः । प्राग्वत् इति ॥ समस्येते स च बहुव्रीहिरित्यर्थः । नामा नीति बहुत्वमविवक्षितमित्यभिप्रेत्योदाहरति । दक्षिणस्याश्चेति । दक्षिणपूर्वेति ॥ स्त्रीत्वं लोकात् । यद्वा अन्तराळमिह दिगेव गृह्यते । “सर्वनाम्नो वृत्तिमात्रे पुंवत्वम्” इति भाष्यम् । यद्यप्युपसर्जनत्वान्न सर्वनामत्वम् । तथापि भूतपूर्वगत्या सर्वनामत्वमादाय पुंवत्वं भवति । अत एव भाष्यात् । ननु दिशोरन्तराळे इत्येव सिद्धे नामग्रहणं किमर्थमित्यत आह । नाम ग्रहणादिति ॥ दिक्षु रूढाश्शब्दाः दिङ्नामानीत्यनेन विवक्षिताः । ऐन्द्यादिशब्दः इन्द्र शब्दात् कुबेरशब्दाच्चेन्द्रसम्बन्धात् कुबेरसम्बन्धाच्च प्रवृत्तो यौगिक एव न रूढ इति भावः । तत्र तेन ॥ समासः इति, बहुव्रीहिः इति चाधिकृतम् । तत्र इत्यनेन सप्तम्यन्ते पदे विवक्षिते ग्रह्णविषये इति प्रथमाद्विवचनान्तं तद्विशेषणमद्याहार्यम् । तेन इत्यनेन तु