पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/५७

एतत् पृष्ठम् परिष्कृतम् अस्ति
समासप्रकरणम्]
५७१
बालमनोरमा

सप्तम्यन्ते ग्रहणविषये सरूपे पदे तृतीयान्ते च प्रहरणवषये इद् युद्धं प्रवृत्तमित्यर्थे समस्येते कर्मव्यतिहारे द्योत्ये स बहुव्रीहिः । इतिशब्दादयं विषयविशेषो लभ्यते । अन्येषामपि दृश्यते (सू ३५३९) । दीर्घ इत्यनुवर्तते । इचि कर्मव्यतिहारे बहुव्रीहौ पूर्वपदान्तस्य दीर्घः । इच्समासान्तो वक्ष्यते । तिष्ठदुप्रभृतिष्विच्प्रत्ययस्य पाठाद्व्ययीभावत्वमव्ययत्वं च । केशेषु केशेषु गृहीत्वेदं युद्धं प्रवृत्तं केशाकेशि । दण्डैश्च दण्डैश्च प्रहत्येदं युद्धं प्रवृत्तं दण्डा दण्डि । मुष्टीमुष्टि ।

तृतीयान्ते पदे विवक्षिते । प्रहरणविषये इति प्रथमाद्विवचनान्तं तद्विशेषणमध्द्याहार्यम् । सरूपे इति प्रथमाद्विवचनान्तपदे विवक्षिते । प्रहरणविषये इति प्रथमाद्विवचनान्तन्तु, सप्तम्यन्तयोस्तृतीयान्तयोश्च प्रल्येकमन्वेति इदम् इत्यर्थनिर्देशः। युद्धं प्रवृत्तमिति तद्वि । । शेष्यमध्ध्याहार्यम् । कर्मव्यतिहारे द्योत्ये इत्यप्यध्ध्याहार्यम् । तदाह । सप्तम्यन्ते इति ॥ प्रथमाद्विवचनमिदम् । ग्रहणविषये इति । गृह्यते अस्मिन्निति ग्रहणम्, केशादि, अधिकरणे ल्युट्, तद्विषयः वाच्यः ययोस्ते प्रहरणविषये, प्रहरणवाचके इति यावत् । अत्रापि सरूपे पदे इत्यन्वति । इदं युद्धं प्रवृत्तमित्यर्थे इति ॥ इदमिति समासार्थः निर्देशः । युद्धमिति विशेष्यनिर्देशः । अतः केशाकेशि युद्धमिति न पुनरुक्तिः । परस्परग्रहणं परस्परप्रहरणं च कर्मव्यतिहारः । ननु “ग्रहणविषये' इत्यध्द्याहारे किं प्रमाणमित्यत आह । इतिशब्दादिति ॥ इतिशब्दो लौकिकप्रसिद्धप्रकारवचनः । केशाकेशीत्यादिलौकिकप्रयोगे यावानर्थः प्रसिद्धस्तावत्यर्थेऽयं वहुव्रीहिर्भवतीत्यर्थः । अन्येषामपि दृश्यते ॥ अनुवर्तत इति ॥ * ढ्रलोपे' इत्यत इति शेषः । “नहिवृतिवृषि' इत्यादिपूर्वसूत्रोक्तादन्येषामपि दीर्घो दृश्यते इत्यर्थः । अतिप्रसङ्गमाशङ्कय आह । कर्मव्यतिहारे बहुव्रीहौ पूर्वपदान्तस्य दीर्घः इति ॥ बहुव्रीहौ चेत् कर्मव्यतिहारे एव पूर्वपदान्तस्यैव दीर्घ इत्यर्थः।तेन तुराषाडित्यादौ दीर्घ निर्बाधः । दृशिग्रहणादयमर्थो लभ्यते । वक्ष्यत इति ॥ 'इच्कर्म व्यतिहारे' इति सूत्रेणेति शेषः । “तिष्ठदुप्रभृतिषु' इति वृत्तिग्रन्थ एवात्र प्रमाणम् । अव्ययीभावत्वमिति । तत्र ' अव्ययीभावः’ इत्यनुवृत्तरिति भावः । अव्ययत्वमिति ॥ अव्ययीभावश्च' इत्यनेनेति शेषः । “अव्ययादाप्सुपः’ इति सुब्लुक् तत्फलमिति भावः । ग्रहीत्वेति ॥ परस्परामिति शेषः । नच कशग्रहणस्य पुरुषकर्तृकत्वात् प्रवृत्तेश्व युद्धकर्तृ कत्वात् समानकर्तृकत्वाभावात् कथमिह क्ताप्रत्यय इति वाच्यम् । गृहीत्वेत्यनन्तरं स्थितयो रियध्द्याहारात् । ततश्च अस्य केशेषु सः, तस्य केशष्वयमित्येवं परस्परं गृहीत्वा स्थितयोरिदं युद्धं प्रवृत्तमिति विग्रहवाक्यं फलितम् । केशाकेशीति ॥ केशेषु केशेष्वित्यनयोर्ग्रहणा द्यन्तभावेन वृत्तिघटकयोस्समासे सति सुब्लुक् पूर्वपदस्य दीर्घः, इच्समासान्तः । “यस्येति च इति लोपः । अव्ययत्वात्सुब्लुगिति भावः । अन्यपदार्थवृत्तित्वेऽपि एकशेषापवादोऽयं वहुव्रीहि समासः । अप्रथमान्तार्थश्च दण्डैश्चेति । अस्य दण्डैस्सः तस्य दण्डैरयमित्येवं परस्परं