पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/५८

एतत् पृष्ठम् परिष्कृतम् अस्ति
५७२
[बहुव्रीहि
सिद्धान्तकौमुदीसहिता

८४७ । ओर्गुणः । (६-४-१४६)

उवर्णान्तस्य भस्य गुणः स्यात्तद्विते । अवादेशः बाहूबाहवि ओरोत्' इति वक्तव्ये गुणोक्तिः “संज्ञापूर्वको विधिरनित्यः' (प ९४) इति ज्ञापयितुम् । तेन “स्वायम्भुवम्' इत्यादि सिद्धम् । “सरूपे' इति किम् हलेन मुसलेन।

८४८ । तेन सहेति तुल्ययोगे । (२-२-२८)

तुल्ययोगे वर्तमानं “सह' इत्यतत्तृतायान्तेन प्राग्वत्

८४९ ।। वोपसर्जनस्य । (६-३-८२)


प्रहृत्य स्थितयोरिदं युद्धं प्रवृत्तमिति विग्रहार्थः। दण्डादण्डीति ।। दण्डैर्दण्डैरित्यनयोः प्रहरणाद्यन्तर्भावेन समासघटकयोस्समासे सति सुब्लुक्, पूर्वपदस्य दीर्घः, इच् यस्येति च इति लोपः। अव्ययत्वात् सुब्लुक् । मुष्टीमुष्टीति॥ अस्य मुष्टिभिस्सः तस्य मुष्टिभिः श्रायमित्येवं परस्परं प्रहृत्य स्थितयोरिदं युद्धं प्रवृत्तमिति विग्रहः। मुष्ठया मुष्ट्या इत्यनयोः। समासे सति सुब्लुगादि पूर्ववत् । मुष्टामुष्टीति पूर्वपदान्तस्य आत्वमपाणिनीयमेव। ओर्गुणः॥ ओः इत्युकारात् षष्ठयेकवचनम् । तेन भस्येत्यधिकृतं विशेष्यते । तदन्तविधिः। नस्तद्धिते इत्यतस्तद्धिते इत्यनुवर्तते । तदाह । उवर्णान्तस्येति ॥ बाहूबाहवीति ॥ बाहौ बाहौ च परस्परं गृहीत्वा स्थितयोरिदं युद्धं प्रवृत्तामिति विग्रहः । समासः, सुब्लुक्, पूर्वपदस्य दीर्घः इच् यस्येति च' इति बाधित्वा ओर्गुणः, अवादेशः अव्ययत्वात् सुपो लुक्। । ननु गुण उकारस्थाने भवन् स्थानसाम्यादोकार एव भवति । ततश्च लाघवात् “ ओरोत्' इत्येव सिद्धे गुण इति गुरुनिर्देशो व्यर्थ इत्यत आह । ओरोत् इति ॥ नचैवमपीह तद्धितसंज्ञापूर्वकत्वं दुर्वारमिति वाच्यम् । विधेयसमर्पकं पदं यत्र संज्ञारूपं स एव संज्ञापूर्वकविधिरित्यभ्युपगमात् नच “ओत्' इति तपरः तत्कालस्य संज्ञेति वाच्यम् । विधीयमानत्वादेव तत्कालत्वसिध्द्या तकारस्य उच्चारणार्थत्वात् । स्वायम्भुवमिति ॥ स्वयम्भुवोऽपत्यमित्यर्थे अण् , संज्ञापूर्वकत्वे नानित्यत्वादोर्गुणाभावे उवङ्, आदिवृद्धिरिति भावः । स्वायम्भवमिति पाठे तस्येदमित्यण् हलेन मुसलेनेति । अत्र असरूपत्वात् हलामुसलीति न भवतीति भावः। तेन सहेति तुल्ययोगे ॥ तुल्ययोगे इति ॥ युगपत्कालिकक्रियायोगे इत्यर्थः । तृतीयान्तेनेति ॥ तेनेत्य नेन तल्लाभादिति भावः । प्राग्वदिति । समस्यते स बहुव्रीहिरित्यर्थः। असामानाधिकर ण्यार्थं कबभावार्थं चेदम् । वोपसर्जनस्य । उत्तरपदे इत्यधिकृतम् । 'सहस्य सस्संज्ञायाम् इत्यतस्सहस्य स इत्यनुवर्तते । उपसर्जनम् अस्यास्तीत्युपसर्जनः, मत्वर्थे ‘अर्श आद्यच्’ । उत्तर पदाक्षिप्तसमासो विशेष्यम् । उपसर्जनवतस्समासस्येत्यर्थः । यद्यपि सर्वेषामपि समासानां कश्चि दवयवः उपसर्जनमेव।तथापि सामर्थ्यादुपसर्जनसर्वावयवकस्येति लभ्यते । तथाच स बहुव्री