पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/५९

एतत् पृष्ठम् परिष्कृतम् अस्ति
समासप्रकरणम्]
५७३
बालमनोरमा

बहुव्रीहेरवयवस्य सहस्य सः स्याद्वा । पुत्रेण सह सपुत्रः, सहपुत्रो वा आगतः। तुल्ययोगवचनं प्रायिकम्। सकर्मकः। सलोमकः।

८५० । प्रकृत्याशिषि । (६-३-८३)

सहशब्दः प्रकृत्या स्यादाशिषि । स्वस्ति राज्ञे सहपुत्राय, सहामात्याय । अगोवत्सहलेष्विति वाच्यम्’ (वा ३९९०) । सगवे । सवत्साय । सहलाय ।

८५१ । बहुव्रीहौ संख्येये डजबहुगणात् । (५-४-७३)

संख्येये या बहुव्रीहिस्तस्माडुच्स्यात् । उपदशा: । “ अबहुगणात्’ किम् । उपबहवः । उपगणाः । अत्र स्वरे विशेषः । सङ्खयायास्तत्पुरुषस्य वाच्यः । (वा ३३४८) निर्गतानि त्रिंशतो निस्त्रिंशानि वर्षाणि चैत्रस्य । निर्गतास्त्रिंशतो ऽङ्गुळिभ्यो निस्त्रिंशः खङ्गः ।

हिरेव । तथाच उपसर्जनस्येत्यनेन बहुत्रीहिरिति लब्धम् । अवयवषष्ठयेषा । तदाह । बहुव्रीहेरवयवस्येत्यादिना । बहुव्रीहेरिति किम् । सहयुद्वा । ‘राजनियुधिकृञ्जः, सहे च' इति क्वनिप् । उपपदसमासः । अबहुव्रीह्यवयवस्य सहस्य सत्वत्र । सपुत्र इति ॥ सभावे रूपम् । पुत्रेण युगपदागत इत्यर्थः । प्रायिकमिति ॥ इतिशब्दादिदं लभ्यते । “विभाषा सपूर्वस्य’ इत्यादिनिर्देशाच्चेति भावः । सकर्मक इति । विद्यमानकर्मक इत्यर्थः । अत्र तुल्ययोगा भावेऽपि सहस्य सः । प्रकृत्याशिषि ! 'सहस्य सस्संज्ञायाम्' इत्यतस्सहस्येत्यनुवृत्तं प्रथमया विपरिणम्यते । तदाह । सहशब्द इति । प्रकृत्येति ॥ स्वभावेन स्थितस्यादित्यर्थः। सभावो नेति यावत् । स्वस्तीति ॥ भूयादिति शेषः । सहपुत्रायेति ॥ तेन सहेति समासे कृते, आशीर्योगान्न सभावः । सहामात्यायेति ॥ अगोवत्सेति ॥ गोवत्स हलेषु परतस्सहस्य प्रकृतिभावो नेत्यर्थः । सगवे इति ॥ राज्ञे स्वस्तीति शेषः । अथ बहु व्रीहावसाधारणसमासान्तानाह । बहुव्रीहौ ॥ सङ्खयेये यो बहुव्रीहिरिति ॥ ‘सङ्खय याव्यय' इति विहित इति शेषः । तस्मादिति ॥ बहुव्रीहाविति पञ्चम्यर्थे सप्तमीति भावः । डच्स्यात् इति ॥ समासान्तस्तद्वितश्रेति ज्ञेयम् । उपदशा इति ॥ दशानां समीपे ये सन्तीति विग्रह । “सङ्खययाव्यय' इति बहुव्रीहिः । सुब्लुक् । उपदशन्शब्दाडुचि 'नस्तद्धिते इति टिलोपः । उपबंहवः, उपगणा इति ॥ बहूनां समीपे ये सन्तीति, गणस्य समीपे ये सन्तीति च विग्रहः । 'बहुगणवतुडति सङ्खया' इति सङ्खयात्वात् ‘सङ्खययाव्यय' इति समासः । अबहुगणात्, इति निषेधान्न डच् । ननु उपगणाः इत्यत्र डचि सति असति च रूपसाम्यात् किं तन्निषेधेनेत्यत आह । अत्र स्वरे विशेष इति ॥ डचि सति चित इति अन्तोदात्तत्वं स्या दित्यर्थः । सङ्खयाया इति ॥ सङ्खयान्ततत्पुरुषस्य समासान्तो डच् वक्तव्यमित्यर्थः । नि स्त्रिंशानीति ॥ ‘निरादयx क्रान्त' इति तत्पुरुषः, डच्, ‘टेः’ इति टिलोपः। त्रिंशतोऽधिका