पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/६०

एतत् पृष्ठम् परिष्कृतम् अस्ति
५७४
[बहुव्रीहि
सिद्धान्तकौमुदीसहिता

८५२ । बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच् । (५-४-११३)

व्यत्ययेन षष्ठी । स्वाङ्गवाचिसक्थ्यक्ष्यन्ताद्वहुव्रीहेः षच्स्यात् । दीर्घे सक्थिनी यस्य सः दीर्घसक्थः । जलजाक्षी । “स्वाङ्गात्' किम् । दीर्घसक्थि शकटम् । स्थूलाक्षा वेणुयष्टिः । “अक्ष्णोऽदर्शनात्' (सू ९४४) इत्यच् ।

८५३ । अङ्गुळेर्दारुणि । (५-४-११४)

अड्गुळ्यन्ताद्वहुव्रीहेः षच्स्याद्दारुण्यर्थे । पश्च अङ्गुळयो यस्य तत्पन्चाङ्गुळ दारु । अङ्गुळिसदृशावयवं धान्यादिविक्षेपणकाष्ठमुच्यते । “बहुव्रीहेः' किम् । द्वे अङ्गुळी प्रमाणमस्याः व्द्यङ्गुळा यष्टिः । तद्धितार्थे तत्पुरुषे ‘तत्पुरुषस्याङ्गुळे:- (सू ७८६) इत्यच् । “दारुणि' किम् । पञ्चाङ्गुळिर्हस्तः । नीति यावत् । निस्त्रिंश इति ॥ समासादि पूर्ववत् । त्रिंशदधिकाङ्गुळ इत्यर्थः ।“न च गवां विंशतिगोविंशतिरित्यत्रातिप्रसङ्गश्शङ्कयः । ‘अव्ययादेः’ इति विशेषणात् ।” इति भाष्ये स्पष्टम् । नचैकाधिका विंशतिरेकविंशतिरित्यत्र ‘सङ्खययाव्यय' इति समासे सति ‘बहुव्रीहौ सङ्खयेये' इति डच् शङ्कयः । अन्यत्राधिकशब्दादिति वार्तिकादित्यास्तां तावत् । बहुवीहौ ॥ सक्थ्यक्ष्णोरिति षष्ठी पञ्चम्यर्थे । ‘व्यत्ययो बहुळम्’ इति छन्दसि वचनादित्यर्थः। “छन्दोवत्सूत्राणि भवन्ति” इति भाष्यम् । बहुव्रीहाविति सप्तमी व्यत्ययेन पञ्चम्यर्थे । तदाह । स्वाङ्गत्वाचीतेि ॥ सक्थ्य क्ष्यन्तादिति । बहुव्रीहिविशेषणत्वात् तदन्तविधिरिति भावः । षच् स्यादिति ॥ समासान्त स्तद्धितश्चेति ज्ञेयम् । दीर्घसक्थ इति ॥ षच 'यस्येति च' इति लोपः । जलजाक्षीति ॥ जलजे इव अक्षिणी यस्या इति विग्रहः । समासे षचि *नस्तद्धिते' इति टिलोपः । षित्वात् डीष् । षित्वं डीषर्थमिति भावः । दीर्घसक्थि शकटमिति ॥ दीर्घ सक्थिनी सक्थिसदृ शावीषादण्डो यस्येति िवग्रहः। अत्र सक्थिशब्दार्थयोरीषादण्डयोः ‘अद्रवन्मूर्तिमत्खाङ्गम्’ इत्यादि स्वाङ्गलक्षणाभावान्न षजिति भावः । अत्र 'स्वाङ्गात्' इत्यस्य प्रत्युदाहरणान्तरमाह । स्थूला क्षेति ॥ स्थूलानि अक्षाणि पर्वग्रन्थयो यस्या इति बहुव्रीहिः । अस्वाङ्गत्वादिह न षजिति भावः । ननु षजभावेऽपि नान्तलक्षणडीपि स्थूलाक्षिणीति स्यादित्यत आह । अक्ष्णोऽदर्श नादत्यजिति ।। षचि तु षित्वलक्षणडीष् स्यादिति भाव । अंगुळेर्दारुणि ॥ बहुव्रीहा वित्यनुवृत्तस्य पञ्चम्यर्थे सप्तम्यन्तस्य अडुळ्या विशेषणात् तदन्तविधिरित्यभिप्रेत्य आह । अंगु ळ्यन्तादिति ॥ पञ्चांगुळं दार्विति ॥ षचि 'यस्येति च' इति इकारलोपः । ननु दारुणः विग्रहः । धान्येति ॥ कुसूलादिस्थितधान्याद्याकर्षकामिति यावत् । उच्यत इति ॥ लक्षण येति शेषः । व्द्यंगुळेति ॥ ‘प्रमाणे द्वयसच्’ इति विहितस्य मात्रचः'द्विगोर्नित्यम्' इति लुक् । अबहुव्रीहित्वादत्र न षजिति भावः । तर्हि व्द्यङ्गुळिः इति स्यादित्यत आह । तद्धितार्थ