पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/६१

एतत् पृष्ठम् परिष्कृतम् अस्ति
समासप्रकरणम्]
५७५
बालमनोरमा

८५४ । द्वित्रिभ्यां ष मूर्ध्नः । (५-४-११५)

आभ्यां मूर्ध्नः षः स्याद्वहुव्रीहौ । द्विमूर्धः । त्रिमूर्ध : । “नेतुर्नक्षत्रे अव्वक्तव्यः' (वा ३३६०) । “ मृगो नेता यासां ताः मृगनेत्रा: रात्रय पुष्यनेत्राः ।

८५५ । अन्तर्बहिभ्यां च लोम्नः । (५-४-११७)

आभ्यां लोस्रोऽप्स्याद्वहुव्रीहौ । अन्तर्लोम: । बहिर्लोंमः ।

८५६ ।। अञ्नासिकायाः संज्ञायां नसं चास्थूलात् । (५-४-११८)

नासिकान्ताद्वहुव्रीहेरच्स्यान्नासिकाशब्दश्च नसं प्राप्तोति न तु स्थूलपूर्वात् ।

८५७ । पूर्वपदात्संज्ञायामगः । (८-४-३)

पूर्वपदस्थान्निमित्तात्परस्य नस्य णः स्यात्संज्ञायां न तु गकारव्यवधाने । द्रुरिव नासिका यस्य द्रुणसः । खरणसः । अग:’ किम् । ऋचामयनम् ऋगय


इति ॥ षचि तु ङीष् स्यादिति भावः । द्वित्रिभ्याम् ॥ षेति लुप्तप्रथमाकं पदम् । द्विमूर्ध इति । द्वौ मूर्धानो यस्येति विग्रहः । त्रिमूर्ध इति । त्रयो मूर्धानो यस्येति विग्रहः । समासान्तः । 'नस्ताद्धिते' इति टिलोपः। षचि अनुवर्तमाने षग्रहणं चित्स्वरनिवृत्त्यर्थम्। नेतुः रिति ॥ नक्षत्रे विद्यमानो यो नेतृशब्दः तदन्ताद्वहुव्रीहेरप् वक्तव्य इत्यर्थः । नेता नायकः । मृगो नेतेति । मृगः मृगशीर्षम् । रात्रिनेता चन्द्रः । तद्योगान्नक्षत्रस्यापि नेतृत्वं बोध्यम् । मृगनेत्रा इति ॥ मृगनेतृशब्दादप्, ऋकारस्य यण्, रेफः, टाप् । पुष्यनेत्रा इति ॥ पुष्यो नेता यासामिति विग्रहः । अन्तर्बहिभ्याञ्च लोम्नः। अंन्तर्लोमः इति ॥ अन्तः लोमानि यस्येति विग्रहः, अप्, टिलोपः । एवं बहिलोमः । अञ् नासिकायाः ॥ अच् इति च्छेदः । नासिकाया इत्यस्य बहुव्रीहेर्विशेषणत्वात् तदन्तविधिमभिप्रेत्य आह । नासिकान्तादिति ॥ नसमित्यनन्तरं प्राप्नोतीत्यद्याहार्यम्। उपस्थितत्वान्नासिकाशब्द इति लभ्यते। तदाह। नासिका शब्दश्च नसं प्राप्नोतीति । पूर्वपदात् ॥ रषाभ्याम् इत्यनुवृत्तम् । पूर्वपदशब्देन पूर्वपदस्थं लक्ष्यते । 'रषाभ्याम्' इत्यनेन लब्धो रेफष्षश्च प्रत्येकमन्वेति । तदाह । पूर्वपदस्था न्निमित्तादिति ॥ रेफषकारात्मकादित्यर्थः । अग इति पञ्चम्यन्तम् । गकारभिन्नात्परस्ये त्यर्थः । गकारात्परस्य नेति यावत् । तदाह । नतु गवकारंव्यवधाने इति । अनेन अट्कुप्वाड्नुम्व्यवायेऽपि' इत्यनुवृत्तिस्सूचिता । अन्यथा अग इत्यस्य वैयर्थ्यं स्यात् । खण्डपदत्वादप्राप्तौ वचनमिदम् । द्रुरेवेति । वृक्ष इवेत्यर्थः । द्रुणस इति । बहुव्रीहे रच् । नासिकाशब्दस्य नसादेशः । णत्वम् । ऋगयनमिति । 'ऋवर्णात्' इति वार्तिक । स्याप्यत्रानुवृत्त्या णत्वं प्राप्त, गकारेण व्यवधानान्न भवतीति भावः । अत्र ऋचामयनामिति