पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/६२

एतत् पृष्ठम् परिष्कृतम् अस्ति
५७६
[बहुव्रीहि
सिद्धान्तकौमुदीसहिता

नम्। अणृगयनादिभ्यः‘’ (सू १४५२) इति निपातनाण्णत्वाभावमाश्रित्य ‘अगः इति प्रत्याख्यातं भाष्ये । “अस्थूलात्' किम् । स्थूलनासिकः । 'खुरखराभ्यां वा नस्’ (वा ३३६३) । खुरणाः । खरणाः । 'पंक्षेऽजपीष्यते' । खुरणसः ।

{{c|८५८ । उपसर्गाच्च । (५-४-११९)

प्रादेर्यो नासिकाशब्दस्तदन्ताद्वहुव्रीहेरच् नासिकाया नसादेशश्च । असं ज्ञार्थमिदं वचनम् । उन्नता नासिका यस्य सः उन्नसः । * उपसर्गादनोत्परः' । इति सूत्रम् । तद्भङ्क्त्वा भाष्यकार आह ।

{{c|८५९ । उपसर्गाद्वहुलम् । (८-४-२८)

उपसर्गस्थान्निमित्तात्परस्य नसा नस्य णः स्याद्वहुलम् । प्रणसः ।

  • वेर्ग्रो वक्तव्यः' (वा ३३६५) । विगता नासिका यस्य विग्रः । “ख्यश्च '

विग्रहप्रदर्शनं चिन्त्यम् । नच रघुनाथ इत्यादौ संज्ञायां णत्वं शङ्कयम् । णत्वेन चेत्संज्ञा गम्यत इत्यर्थात् । इह तु कृते णत्वे संज्ञात्वभङ्गापत्तेर्न णत्वम् । अत एव “भृञोऽसंज्ञायाम्' इति सूत्रभाष्ये य एते संज्ञायामिति विधीयते, तेषु नैवं विज्ञायते, संज्ञायामभिधेयायामिति । किं तर्हि प्रत्ययान्तेन चेत्संज्ञा गम्यत इत्युक्तम् । खुरेति । खुरखराभ्यां परस्य नासिकाशब्दस्य बहुव्रीहौ संज्ञायां नसादेशो वेति वक्तव्यमित्यर्थः । प्रकृतत्वादेव सिद्धे नसादेशवचनम् अच्प्र त्यानुवृत्तिनिवृत्त्यर्थम् । खुरणा इति । खुराविव नासिके यस्यति विग्रहः । नसादेशः । पूर्वपदात्संज्ञायाम्' इति णत्वम् । “अत्वसन्तस्य' इति दीर्घः । खरणा इति ॥ खररूपा नासिका यस्येति विग्रहः । पक्षे खुरनासिक इति खरनासिक इति च न भवतीत्याह । पक्षे अजपीष्यते इति ॥ अच्प्रत्ययसाहृतः नसादेश इत्यर्थः । भाष्ये त्विदं न दृश्यते । उपसर्गाच्च । नन्वत्र नासिकाया इत्येव सिद्धे किमर्थमिदमित्यत आह । असंज्ञार्थ मिदमिति । उपसर्गादनोत्परः इति सूत्रमिति । तत्र हि 'नश्च धातुस्था' इति सूत्रान्नसिति लुप्तषष्टीकमनुवर्तते । “रषाभ्यां नो णः’ इत्यनुवर्तते । उपसर्गस्थाद्रेफषकारा त्परस्य नसो नस्य णस्यात् ओत्परस्तु नकारो णत्वं न प्राप्रोतीत्यर्थः । खण्डपदस्थत्वादप्राप्ता विदं सूत्रम् । “प्र ण आयूंषि तारिषत्' इत्याद्युदाहरणम् । “अनोत्परः’ किम् ? “प्रनो मुञ्चतम्” । अत्र ओत्परकत्वान्न णत्वामिति स्थितिः । तद्भङ्क्त्वे ति । “ अनोत्परः’ इत्यपनीय तत्स्थाने बहुलामिति च कृत्वा भाष्यकारः आहेत्यर्थः । तथाच फलितं सूत्रमाह । उपसर्गाद्वहुलम् । निमित्तादिति । रेफषकारात्मकादित्यर्थः । “उपसर्गादनोत्परः १. वार्तिके वाग्रहणं “पक्षेऽजपि' 'खुरणसः' इत्युदाहरणं निर्मूलम् । मुनित्रयानुक्तत्वात् इति रत्नाकर