पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/६३

एतत् पृष्ठम् परिष्कृतम् अस्ति
समासप्रकरणम्]
५७७
बालमनोरमा

(वा ३३६६) । विख्यः । कथं तर्हि 'विनसा हतबान्धवा' इतेि भट्टिः । विगतया नासिकयोपलक्षितेति व्याख्येयम् ।

८६० । सुप्रातसुश्वसुद्विशारिकुक्षचतुरश्रेणी पदाजपदप्रोष्ठपदाः । (५-४-१२०)

एते बहुव्रीहयोऽच्प्रत्ययान्ता निपात्यन्ते । शोभनं प्रातरस्य सुप्रातः । शोभनं श्वोऽस्य सुश्वः । शोभनं दिवा अस्य सुदिवः । शारेरिव कुक्षिरस्य शारि कुक्षः । चतस्राऽऽश्रयाऽस्य चतुरश्रः । एण्या इव पादावस्यैणीपर्दः । अजपदः । प्रोष्ठो गौस्तस्येव पादावस्य प्रोष्ठपदः ।

८६१ । नञ् दुःसुभ्यो हलिसक्थ्योरन्यतरस्याम् । (५-४-१२१)

अच्स्यात् । अहलः-अहलिः । असक्थः—असक्थिः । एवं दुःसुभ्याम् । शक्त-योः' इति पाठान्तरम् । अशक्तः—अशक्तिः ।


इति यथाश्रुते तु “प्रणो नय'इत्यादावव्याप्तिः, “प्रनxपूषा” इत्यादावतिव्याप्तिश्चेति भावः । प्रणस इति ॥ प्रगता नासिका यस्येति विग्रहः । “उपसर्गाच' इत्यच । नासिकाया नसि “उपसर्गा द्वहुळम्’ इति णत्वमिति भावः । वेरिति ॥ वेx परो यो नासिकाशब्दः सः प्रादेशं प्राप्नोतीति भावः । विग्र इति । विगता नासिका यस्येति विग्रहः । प्रकृतवार्तिकेन नासिकाशब्दस्य प्रादेश इति भावः । विगता नासिका यस्येति विग्रहे अचि नसादेशे टापि च विनसेति भट्टिप्रयोगः न युज्यते । ग्रादेशस्यास्य नसादेशं प्रति अपवादत्वादित्याक्षिपति । कथन्तर्हीति ॥ समाधत्ते । विगतयेति । विगता नासिका विनासिका। प्रादिसमासः । अबहुव्रीहित्वात् न प्रादेशः । किन्तु टायां “पद्दन्’ इति नसादेशे विनसेति तृतीयान्तं रूपन् । उपलक्षितेत्यध्द्याहार्यमिति भावः । सुप्रात ॥ सुप्रात इति ॥ अच्प्रत्ययः । “अव्ययानां भमात्रे टिलोपः' । सुश्व इति । अञ्, पूर्ववट्टिलोपः । सुदिवः इति ॥ शोभनं दिवा यस्येति । दिवेल्याकारान्तमव्ययम् ।

  • अव्ययानां भमात्रे टिलोपः’ इति टिलोपः । शारिकुक्ष इति ॥ शरिः पक्षिविशेषः ।

अचि, “यस्येति च' इति इकारलोपः । चतस्रोऽश्रयः इति ॥ कोणा इत्यर्थः । अचि यस्येति च' इति इकारलोपः । एण्या इवेति ॥ एणी मृगी । अजपद् इति ॥ अजः छागः तस्येव पादावस्येति विग्रहः । एणीपदादिषु अञ् । निपातनात् पादः पत् । नञ्दुस्सुः भ्यः ॥ शेषपूरणेन सूत्रं व्याचष्टे । अच् स्यादिति ॥ अहलः, अहलिरिति ॥ अविद्यमानः हलिः यस्येति विग्रहः । हलिशब्द इदन्तः हलपर्यायः । तदन्तादचि 'यस्येति च' इति इकारलोपः । तदभावे च रूपम् । यद्यपि हलशब्देन हलिशब्देन च रूपद्वयं सिद्धम् । तथापि अनुक्तसमासान्ततया शैषिकस्य कपः प्राप्तौ तन्निवृत्त्यर्थे इदं वचनम् । अस्य वैकल्पिकत्वेऽपि अनुक्तसमासान्तत्वाभावादत्र न कप् । असक्थः, असक्थिरिति ॥ अविद्यमानं सक्थि 73