पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/६४

एतत् पृष्ठम् परिष्कृतम् अस्ति
५७८
[बहुव्रीहि
सिद्धान्तकौमुदीसहिता

८६२ ॥ नित्यमसिच्प्रजामेधयोः । (५-४-१२२)

नञ्दुःसुभ्यः' इत्येव । अप्रजाः । दुष्प्रजाः । सुप्रजाः । अमेधाः । दुर्मेधाः । सुमेधा

८६३ ॥ धर्मादनिच्केवलात् । (५-४-१२४)

केवलात्पूर्वपदात्परो धर्मशब्दस्तदन्ताद्वहुव्रीहेरनिच्स्यात् । कल्याणधर्मा । केवलात्’ किम्। परमः स्वो धर्मो यस्येति त्रिपदे बहुव्रीहौ मा भूत् । स्वशब्दो हीह न केवलं पूर्वपदम्, किन्तु मध्यमत्वादापेक्षिकम् । “सन्दिग्धसाध्यधर्मा '

यस्येति विग्रहः । एवं दुस्सुभ्यामिति ॥ दुर्हलः, दुर्हलिः । दुस्सक्थः, दुस्सक्थिः । शक्त्यो रिति ॥ 'हलिशक्त्योः ' इति केचित् पाणिनीयाः पठन्तीत्यर्थः । केचिच्छिष्याः पाणिनिना तथा पाठिता इति वदन्तीति भावः । नित्यमसिच् ॥ नञ्दुस्सुभ्य इत्येवेति ॥ पूर्वसूत्रा दनुवर्तत इति भावः । एतेभ्यः पराभ्यां प्रजामेधाशब्दाभ्यां नित्यमसिच् समासान्तस्यात् स तद्धित इत्यर्थः । असिचः चकार इत् । इकार उच्चारणार्थः । अन्यतरस्यामित्यनुवृत्तिनिवृ त्यर्थं नित्यग्रहणम् । अस्वरितत्वादेव तदनुवृत्त्यभावे सिद्धे स्पष्टार्थमिति तत्वम् । अप्रजा इति । अविद्यमाना प्रजा यस्येति विग्रहः । “नञोऽस्त्यर्थानाम्' इति समासः । आसिचि यस्येति च ' इत्याकारलोपादप्रजश्शब्दात् सुबुत्पत्तिः । सौ तु * अत्वसन्तस्य' इति दीर्घः । हल्ङयाप्' इति सुलोपः । यद्यप्यकारं विना सिचि विहितेऽपि सिद्धमिदम् । तथापि सिच्य भत्वेन आकारलोपाभावादप्रजाशब्दात् सुबुत्पत्तौ, प्रथमैकवचने अप्रजाः इति रूपसिद्धावपि अप्रजसाविति न स्यात् । किन्तु अप्रजासावित्यादि स्यात् । तस्मादकारोच्चारणं भत्वसम्पादनार्थ मावश्यकम् । दुष्प्रजा इति । दुर्गता प्रजा यस्येति विग्रहः । 'प्रादिभ्यो धातुजस्य' इति समासः । असिजादि पूर्ववत् । 'इदुदुपधस्य' इति षत्वम् । सुप्रजा इति ॥ शोभना प्रजा यस्येति विग्रहः । असिजादि पूर्ववत् । अमेधाः इत्यादि । अविद्यमाना मेधा यस्येति विग्रहः । असिजादि पूर्ववत् । केचित्तु नित्यग्रहणमन्यतो विधानार्थम् । तेनाल्पमेधसः इत्यादि सिध्ध्यती त्यप्याहुः । धर्मादनिच्केवलात् ॥ पूर्वपदादित्यध्द्याहृत्य केवलादित्यस्य तद्विशेषणत्वमाह । केवलात्पूर्वपदादितेि ॥ अनिचि चकार इत् । इकार उच्चारणार्थः । मध्यमपदत्वानाक्रान्त त्वं केवलपूर्वपदत्वम् । कल्याणधर्मेति । कल्याणो धर्मो यस्येति विग्रहः । निचि 'यस्येति च' इत्यकारलोपः । परम इति ॥ परमः स्वः धर्मो यस्येति बहुव्रीहौ परमस्वधर्मशब्दे स्वशब्दस्य धर्मशब्दापेक्षया पूर्वपदत्वात् ततx परमस्वधर्मशब्दादप्यचx प्राप्तौ तन्निवृत्त्यर्थे केवलग्रहणमिति भावः । केवलग्रहणे कृते तु न दोष इत्याह । स्खशब्दो हीह न केवलं पूर्वपदमिति । किंत्विति । किन्तु स्वशब्दः धर्मपदापेक्षया पूर्वत्वात्पूर्वपदं, न तु कैवलं मध्यमत्वात् । केवलशब्देन च पदान्तरराहित्यवाचिना मध्यमपदत्वानाक्रान्तत्वलाभादित्यर्थः । इदञ्च 'इजादेः' इति सूत्रभाष्ये स्पष्टम् । एवञ्च त्रिपदबहुव्रीहौ परमस्वधर्म इत्येव भवति । न