पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/६५

एतत् पृष्ठम् परिष्कृतम् अस्ति
समासप्रकरणम्]
५७९
बालमनोरमा

इत्यादौ तु कर्मधारयपूर्वपदो बहुव्रीहिः । एवं च “ परमस्वधर्मा' इत्यपि साध्वेव । 'निवृत्तिधर्मा' * अनुच्छित्तिधर्मा' इत्यादिवत् । पूर्वपदन्तु बहुव्री हेिणा आक्षिप्यते ।

८६४ । जम्भा सुहरिततृणसोमेभ्यः । (५-४-१२५)

जम्भा' इति कृतसमासान्तं निपात्यते । * जम्भो भक्ष्ये दन्ते च । शोभनो जम्भोऽस्य सुजम्भा । हरितजम्भा । तृणं भक्ष्यं यस्य, तृणमिव दन्ता यस्येति वा तृणजम्भा । सोमजम्भा । “ स्वादिभ्यः' किम् । पतितजम्भः।

८६५ । दक्षिणेर्मा लुब्धयोगे । (५-४-१२६)

दक्षिणे ईर्मं व्रणं यस्य दक्षिणेर्मा मृगः । व्याधेन कृतव्रण इत्यर्थः।


त्वनिच् । 'सर्वनामसङ्खययोरुपसङ्खयानम्’ इति स्वशब्दस्य पूर्वनिपातस्तु ‘वाहिताग्रयादिषु' इति पाक्षिकत्वान्न भवति । नन्वेवं सति सन्दिग्धस्साध्यः धर्मो यस्य स सन्दिग्धसाध्यधर्मा इत्यत्र कथमनिच् । अत्र हि सन्दिग्धति केवल पूर्वपदं, धर्मशब्दस्तस्मात् परो न भवति । यस्मात् साध्यशब्दात् परो धर्मशब्दस्तस्य तु न पूर्वपदत्वम्, मध्द्यमपदत्वादित्यत आह । सन्दिग्धे ति ॥ सन्दिग्धश्चासौ साध्द्यश्चेति कर्मधारयः । सन्दिग्धसाध्द्यः धर्मो यस्येति कर्मधारयगर्भो बहुव्रीहिः । एवञ्च सन्दिग्धसाध्द्यशब्दस्य केवलपूर्वपदत्वात् तत्रानिच् निर्बाध इति भावः । एवं चेति । उत्क्तरीत्या परमश्चासौ स्वश्च परमस्वः, परमस्वः धर्मो यस्येति कर्मधारयाः श्रयणे तु केवलपूर्वेपदत्वादनिच् । परमस्वधर्मेत्यपि साध्चेवेत्यर्थः । निवृत्तीति । निवृत्तिः धर्मो यस्येति, अनुच्छित्तिः धर्मो यस्येति चव विग्रहः । अत्र समासे निवृत्तिशब्दस्य अनुच्छित्तिशब्दस्य च केवलपूर्वपदत्वात् यथायोग्यमनिजिति भावः । नन्विह सूत्रे पूर्वपदशब्दस्याश्रवणादनुवृत्य भावाच्च कथं पूर्वपदादिति लभ्यत इत्यत आह । पूर्वपदं त्विति ॥ जम्भा सुहरित । जम्भति नकारान्तं पदम् । तदाह । जम्भेति कृतसमासान्तमिति । अनिजन्त मित्यर्थः। सु, हरित, तृण, सोम इत्येतेभ्यः परो यो जम्भशब्दः तदन्तात् बहुव्रीहेः अनिच्प्रत्ययो निपातित इति भावः । जम्भो भक्ष्ये दन्ते चेति । अत्र कोशो मृग्यः । सुजम्भेति । सुजम्भशब्दादनिचि 'यस्येति च' इत्यकारलोपः । हरितजम्भेति ॥ हरितो जम्भो यस्येति विग्रहः । तृणमिवेति । तृणशब्दस्य दन्तवाचिना जम्भशब्देन सामानाधिकरण्यलाभाय तृणशब्दस्य तत्सदृशे लक्षणेति भावः । सोमजम्भेति । सोमः चन्द्रः स इव शुभ्राः जम्भाः दन्ताः यस्यात् विग्रहः । सोमः सोमलता वा, सैव जम्भः भक्ष्यं यस्येति विग्रहः । पतितजम्भ इति । पतिताः जम्भाः दन्ताः यस्येति विग्रहः । दक्षिणेर्मा ।। लुब्धो व्याधः। तद्योगे 'दक्षिणेर्मा’ इत्यनिच्प्रत्ययः, बहुव्रीहिश्च निपात्यते । दक्षिणे ईर्मे यस्येति विग्रहः । ईर्ममित्यस्य व्याख्यानं व्रणमिति । व्यधिकरणत्वेऽपि बहुव्रीहिर्निपातनात् । अनिचि 'यस्येति च' इत्यकारलोपे दक्षिणेर्मेति रूपम् । लुब्धशब्दं विवृण्वन्नाह । व्याधेनेति ॥