पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/६६

एतत् पृष्ठम् परिष्कृतम् अस्ति
५८०
[बहुव्रीहि
सिद्धान्तकौमुदीसहिता

८६६ । इच्कर्मव्यतिहारे । (५-४-१२७)

कर्मव्यतिहारे यो बहुव्रीहिस्तस्मादिच्स्यात्समासान्तः । केशाकेशि । मुसलामुसलि

८६७ । द्विदण्ड्यादिभ्यश्च । (५-४-१२८)

तादर्थ्ये चतुर्थ्येषा । एषां सिद्धयर्थमिच्प्रत्ययः स्यात् । द्वौ दण्डौ यस्मिन्प्रहरणे तद्विदण्डि प्रहरणम् । द्विमुसलि । उभाहस्ति । उभयाहस्ति ।

८६८ । प्रसम्भ्यां जानुनोर्ज्ञुः । (५-४-१२९)

आभ्यां परयोर्जानुशव्दयोर्ज्ञुरादेशः स्याद्वहुव्रीहौ । प्रगते जानुनी यस्य प्रज्ञुः। संज्ञुः।

८६९ । ऊध्र्वाद्विभाषा । (५-४-१३० )

ऊर्ध्वहुः । ऊर्ध्वजानुः ।

८७० । धनुषश्च । (५-४-१३२)

धनुरन्तस्य बहुव्रीहेरनडादेशः स्यात् । द्विधन्वा । शार्ङ्गधन्वा ।

रोगादिना व्रणे तु दक्षिणेर्मः इत्येवेति भावः । इच्कर्मव्यतिहारे ॥ समासान्त इति । तद्धित इत्यपि ज्ञेयम् । केशाकेशीति । अत्र प्रक्रिया प्रागेव प्रदर्शिता । द्विदण्ड्यादिभ्यश्च ॥ द्विदण्ड्यादिषु इदन्तानामेव निपातनात् तेभ्यः परत्वेन इच्प्रत्यय विधिरनर्थक इत्याशङ्कय नेयं पञ्चमीत्याह । तादर्थ्ये चतुर्थ्येषेति ॥ द्वौ दण्डाविति ॥ कर्मव्यतिहाराभावेऽपि वैरूप्येऽपि बहुव्रीहिः इच्प्रत्ययश्च निपात्यते । द्विदण्डीति । दण्डा दण्डीतिवत् प्रक्रिया । कर्मव्यतिहाराभावात् पूर्वपदस्य न दीर्घ इति विशेषः । द्विमुसलीति । द्वे मुसले यस्मिन् प्रहरणे इति विग्रहः । उभाहस्ति, उभयाहस्तीति । उभौ हस्तौ यस्मिन् प्रहरण इति विग्रहः । उभयोऽन्यत्रेति नित्यमयवि प्राप्ते निपातनेन विकल्प्यते । कर्मव्यतिहाराभावेऽपि दीर्घश्च । प्रसम्भ्यां ॥ जानुशब्दयोरिति । प्रसम् इति पूर्वपदद्वित्वात् तद्धटितोत्तरपदभूतजानुशब्दस्यापि द्वित्वं बोध्द्यम् । जानुन इत्युक्ते तु ‘प्रत्ययः परश्च' इत्यधिकारात् पञ्चम्यन्तत्वसम्भवात् ज्ञोः प्रत्ययत्वञ्च सम्भाव्येत । तस्यादेशत्वसिद्धये षष्ठीद्विवचननिर्देशः । तदाह । ज्ञुरादेश इति । प्रज्ञुरिति ॥ “प्रादिभ्यो धातुजस्य' इति समासः । संज्ञुरिति ॥ सङ्गते जानुनी यस्येति विग्रहः । ऊर्द्ध्वाद्विभाषा ॥ ऊर्द्ध्वशब्दात् परो यो जानुशब्दः तस्य जुरादेशो वा स्यात् बहुव्रीहावित्यर्थः । ऊर्द्ध्वरिति ॥' ऊर्द्ध्वे जानुनी यस्येति विग्रहः । धनुषश्च ॥ 'ऊधसोऽनङ् ' इति पूर्वसूत्रं स्रीप्रत्ययाधिकारे व्या ख्यातम् । तस्मादनाङित्यनुवर्तते । तदाह । अनङादेश इति । ङित्वादन्तादेशः । 'प्रत्ययः,