पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/६८

एतत् पृष्ठम् परिष्कृतम् अस्ति
५८२
[बहुव्रीहि
सिद्धान्तकौमुदीसहिता

[एकान्त: एकदेश इवाविभागेन लक्ष्यमाण इत्यर्थः । सुगन्धि पुष्पं सलिलश्च । सुगन्धिर्वायुः । नेह । सु शोभनाः गन्धाः द्रव्याण्यस्य सुगन्ध आपणिकः ।

८७५ । अल्पाख्यायाम् । (५-४-१३६)

सूपस्य गन्धो लेशो यस्मिस्तत्सूपगन्धि भोजनम् । घृतगन्धि । “गन्धो गन्धक आमोदे लेशे सम्बन्धगर्वयोः' इति विश्वः ।

८७६ । उपमानाच्च । (५-४-१३७)

पद्स्येव गन्धोऽस्य पद्मगन्धिः ।

८७७ । पादस्य लोपोऽहस्त्यादिभ्यः । (५-४-१३८)

हस्त्यादिवर्जितादुपमानात्परस्य पादशब्दस्य लोपः स्यात् समासान्तो बहु व्रीहौ । स्थानिद्वारेणायं समासान्त : । व्याघ्रस्येव पादावस्य व्याघ्रपात् । । अह स्त्यादिभ्यः' किम् । हस्तिपादः । कुसूलपादः ।

सलिलाच्च द्रव्यात् पृथगलक्ष्यमाणत्वादिति भावः । सु शोभना इति ॥ सु इत्यस्य व्याख्यानं शोभना इति । गन्धा इति ॥ गन्धवन्त इत्यर्थः । “गुणवचनभ्यो मतुपो लुगिष्टः’ इति लुक् । द्रव्याणीति ॥ चन्दनादीनीत्यर्थः । गन्धा इत्यस्य विशेष्यमेतत् । गन्धशब्दस्य नपुसकद्रव्यविशेषणत्वेऽपि नियतलिङ्गत्वात् पुस्त्वं युज्यते । “गन्धस्तु सौरभे नृत्ये गन्धके गर्वलेशयोः । स एव द्रव्यवचनो बहुत्वे पुंसि च स्मृतः ॥” इति कोशात् । सुगन्धः आापणिक इति । अत्र गन्धशब्दवाच्यानां चन्दनादिद्रव्याणां विशेष्यभूता ऽऽपणापेक्षया पृथक् लक्ष्यमाणत्वादित्वे नेति भावः । अल्पाख्यायाम् । अल्पवचने सति गन्धशब्दस्य इकारोऽन्तादेशस्यात् बहुव्रीहावित्यर्थः । लेश इति गन्धशब्दस्य विवरणम् । सूपस्य गन्धः यस्मिन्नित्येव विग्रहः । सूपगन्धि भोजनमिति ॥ उत्पूति सुरभिपूर्वकत्वाभावादेकान्तत्वाभावाच्चाप्राप्ते वचनमिदम् । व्यधिकरणपदानामपि क्वचिदस्ति बहुव्रीहिरिति मूल एवानुपदं वक्ष्यते । घृतगन्धीति ॥ घृतस्य गन्धः लेशः यस्मिान्निति विग्रहः । गन्धशब्दस्याल्पवाचित्वे प्रमाणमाह । गन्धो गन्धक इति । उपमानाञ्च ॥ उपमानवाचिपूर्वपदात् परस्यापि गन्धशब्दस्य इकारोऽन्तादेशस्यात् बहुव्रीहावित्यर्थः । पद्मः स्येवेति ॥ फलितार्थकथनमिदम् । पद्मगन्ध इव गन्धो यस्येति विग्रहः । पद्मगन्धपदं पद्मसम्बन्धिगन्धसदृशे लाक्षणिकम् । “सप्तम्युपमानपूर्वपदस्य' इति समासः । पादस्य लोपः ॥ अहस्यादिभ्य इति च्छेदः । उपमानादित्यनुवर्तते । तदाह । हस्त्यादिवर्जि तादिति ॥ “ आदेः परस्य' इत्यप्रवृत्तये आह । समासान्तो बहुव्रीहाविति ॥ शेषिकस्य कपो निवृत्त्यर्थमपि लोपस्य समासान्तत्वम् । अनुक्तसमासान्तत्वात् कप् अन्यथा प्रसज्येत । नन्वभावात्मकस्य लोपस्य कथं समासान्तावयवत्वमित्यत आह । स्थानीति ॥