पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/६९

एतत् पृष्ठम् परिष्कृतम् अस्ति
समासप्रकरणम्]
५८३
बालमनोरमा

८७८ । । कुम्भपदीषु च । (५-४-१३९)

कुम्भपद्यादिषु पादस्य लोपो ङीप् च निपात्यते स्त्रियाम् । * पादः पत् (सू ४१४) । कुम्भपदी । “स्त्रियाम्' किम् । कुम्भपादः ।

८७९ । सङ्खयासुपूर्वस्य । (५-४-१४०)

पाद्स्य लोपः स्यात्समासान्तो वहुव्रीहौ । द्विपात् । सुपात् ।

८८० । वयसि दन्तस्य दतृ । (५-४-१४१)

सङ्ख-यासुपूर्वस्य दन्तस्य “दतृ' इत्यादेशः स्याद्वयसि । द्विदन् । चतु र्दन् । षट् दन्ता अस्य षोडन् । सुदन्-सुदती । “ वयसि' किम् । द्विदन्त करा । सुदन्ता नटः।

८८१ । स्त्रियां संज्ञायाम् । (५-४-१४३)

दन्तस्य ‘दतृ' स्यात्समासान्तो बहुव्रीहौ । अयोदती । फालदती । संज्ञायाम्' किम् । समदन्ती ।


व्याघ्रस्येवेति ॥ फलितार्थकथनमिदम् । व्याघ्रपादाविव पादावस्येति विग्रहः । ‘सप्तम्यु पमानपूर्वपदस्य' इति समासः । कुम्भपदीषु च ॥ कुम्भपदीष्विति बहुवचननिर्देशात् गणपाठाच्च कुम्भपद्यादिग्रहणमिति भावः । ङीप् चेति ॥ 'पादोऽन्यतरस्याम्' इति विकल्पापवाद इति भावः । स्त्रियामिति ॥ कुम्भपद्यादीनां स्त्रीलिङ्गानामेव गणे पाठादिति भावः । कुम्भपदीति । कुम्भस्येव पादावस्येति विग्रहः । 'पादस्य लोपोऽहस्यादिभ्य इति लोपे सिद्धे तदनुवादेन नित्यं डीबर्थ वचनम् । सङ्खयार्सुपूवस्य ॥ शेषपूरणेन सूत्रं व्याचष्टे । पादस्येति ॥ उपमानात् परत्वाभावादप्राप्तौ वचनम् । द्विपादि ति ॥ द्वौ पादावस्येति विग्रहः । सुपादिति ॥ शोभनौ पादावस्येति विग्रहः । वयसि दन्तस्य दतृ ॥ द्विदन्निति ॥ द्वौ दन्तौ यस्येति विग्रहः । शिशुत्वं गम्यते । दन्तस्य दत्रादेशः । ऋकार इत् । उगित्वान्नुम् । सुलोपः । संयोगान्तलोपः । तस्या सिद्धत्वादुपधादीर्घो न । चतुर्दन्निति ॥ चत्वारो दन्ता यस्येति विग्रहः । दत्रादि पूर्ववत् । षोडन्निति ॥ षट् दन्ता यस्येति विग्रहः । दत्रादि पूर्ववत् । षष उत्त्वमिति श्रुत्वोत्वे । सुदन्निति ॥ सु शोभना दन्ताः समस्ता जाता यस्यति विग्रहः । वयोविशेषावगतये समस्तस्य निवेशः । सुदतीति ॥ शोभना दन्ताः समस्ता यस्या इति विग्रहः । दत्रादेशः । “उगितश्च इति ङीप् । द्विदन्तः करीति ॥ हस्तिनस्सर्वदा द्विदन्तत्वेन वयोविशेषानवगतिरिति भावः । स्त्रियां संज्ञायाम् ॥ शेषपूरणेन सूत्रं व्याचष्ट । दन्तस्येति । वयोविशेषानवगमेऽपि प्राप्त्यर्थमिदम् । अयोदतीति ॥ फालद्तीति । संज्ञाविशेषाविमौ । समदन्तीति ॥