पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/७२

एतत् पृष्ठम् परिष्कृतम् अस्ति
५८६
[बहुव्रीहि
सिद्धान्तकौमुदीसहिता

८९१ । शेषाद्विभाषा । (५-४-१५४)

अनुक्तसमासान्ताच्छेषाधिकारस्थाद्वहुव्रीहेः कब्वा स्यात् । महायशस्क महायशाः । “ अनुक्त-' इत्यादि किम् । व्याघ्रपात् । सुगन्धिः । प्रियपथः ।

  • शेषाधिकारस्थात्' किम् । उपबहवः । उत्तरपूर्वा । सपुत्रः । तन्त्रादिना

शेषशब्दोऽर्थद्वयपरः ।

८९२ । आपोऽन्यतरस्याम् । (७-४-१५)

कप्याबन्तस्य ह्रस्वो वा स्यात् । बहुमालाकः-बहुमालकः । कबभावे बहुमालः ।

८९३ । न संज्ञायाम् । (५-४-१५५)

शेषात्--' (सू ८९१) इति प्राप्तः कन्न स्यात्संज्ञायाम् । विश्वे देवा अस्य विश्वेदेवः ।


  यस्मिन्निति विग्रहः । अत्र समासस्यास्त्रीलिङ्गत्वान्न नित्यः कबिति भावः । शेषाद्विभाषा ॥

इतः पूर्वे येभ्यः समासान्ता विहितास्तेभ्योऽन्यश्शेषः । तदाह । अनुक्तसमासान्तादिति ॥ शेषाधिकारस्थादिति ॥ शेषादित्यनेन शेषाधिकारस्थादित्यपि विवक्षितमिति भावः । महायशस्क इति ॥ महत् यशः यस्येति विग्रहः । ‘आन्महत:’ इत्यात्त्वे, कपि, ‘सौऽपदादौ' इति सत्वम् । महायशा इति ॥ कबभावे ‘अत्वसन्तस्य’ इति दीर्घः। व्याघ्रपादिति ॥‘पादस्य लोपोऽहस्त्यादिभ्यः’ इत्युक्तसमासान्तोऽयम् । स्थानिद्वारा लोपस्यापि समासान्तत्वात् । सुग न्धिरिति ॥ “गन्धस्येदुत्पूति' इति कृतसमासान्तोऽयम् । प्रियपथ इति ॥ 'ऋक्पूः’ इति कृतसमासान्तोऽयम् । उपबहव इति ॥ “सङ्खययाव्यय' इति बहुव्रीहिरयम् न शाधिकारस्थः । उत्तरपूर्वेति ॥ अयमपि ‘दिङ्नामान्यन्तराळे' इति कृतबहुव्रीहिः, न शेषाधिकारस्थः । सपुत्र इति ॥ “तेन सह' इत्यमपि बहुव्रीहिः, न शेषाधिकारस्थः । ननु सकृदुच्चारताच्छेषशब्दात् कथमर्थद्वयलाभ इत्यत आह्व । तन्त्रादिनेति ॥ आदिना आवृत्तिसङ्ग्रहः । एकमनेकोपयोगि तन्त्रम् । उच्चारयित्रा तन्त्रेणोच्चरितात् शब्दात् आवृत्त्या बोध इति बोध्यम् । 'श्वतो धावति' इत्यादौ सकृदुच्चारणेऽपि श्वा इतः धावति श्वेतगुणको धावतीत्येवमनेकार्थबोधदर्शनादिति भावः । आापोऽन्यतरस्याम् ॥ कपीति ॥ ‘न कपि ' इत्यतस्तदनुवृत्तेः इति भावः । आाबन्तस्येति ॥ 'प्रत्ययग्रहणपरिभाषया लब्धमिदम् । ह्रस्वो वेति ॥ 'शूदृप्रां हस्वो वा' इत्यतः तदनुवृत्तेरिति भावः । *न कपि' इति नित्यं निषेधे प्राप्ते विकल्पार्थमिदं वचनम् । बहुमालाक इति ॥ बह्वयः मालाः यस्येति विग्रहः । ह्रस्वपक्षे बहुमालकः इति भवति । कपो वैकल्पिकत्वात् पक्षे बहुमालः । सर्वत्र “स्त्रियाः पुंवत् इति पुंवत्वम्। न संज्ञायाम् ॥ शेषादिति प्राप्त इति ॥ 'अनन्तरस्य’ इति न्यायात् शेषाद्विभाषा' इति विहितस्य कप एवायं निषेधः, नतु व्यवहितस्य । “नवृतश्च' इत्यादिकप