पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/७३

एतत् पृष्ठम् परिष्कृतम् अस्ति
समासप्रकरणम्]
५८७
बालमनोरमा

८९४ । ईयसश्च । (५-४-१५६)

ईयसन्तोत्तरपदान्न कप् । बहवः श्रेयांसोऽस्य बहुश्रेयान् । “गोस्त्रियो :- (सू ६५६) इति हृस्वत्वे प्राप्त । *ईयसो बहुव्रीहेर्नेति वाच्यम्' (वा ६९६) । बह्वयः श्रेयस्योऽस्य बहुश्रेयसी । 'बहुव्रीहेः' किम् । अतिश्रेयसिः ।

८९५ । वन्दिते भ्रातुः । (५-४-१५७)

पूजितेऽर्थे यो . भ्रातृशब्दस्तदन्तान्न कप्स्यात् । प्रशस्तेो भ्राता यस्य प्रशस्तभ्राता, सुभ्राता । * न पूजनात्' (सू १९५४) इति निषेधस्तु “बहुव्रीहौ सक्थ्यक्ष्णोः –' (सू ८५२) इत्यतः प्रागेवेति वक्ष्यते । “वन्दिते' किम् ।

मूर्खभ्रातृकः।

८९६ । नाडीतन्त्र्योः स्वाङ्गे । (५-४-१५९)

स्वाङ्गे या नाडीतन्त्रीशब्दौ तद्न्तात्कब्र स्यात् । बहुनाडिः कायः ।


इति भावः । विश्वे देवाः अस्येति ॥ अत्र संज्ञायां समासस्य नित्यत्वात् लौकिक विग्रहप्रदर्शनं चिन्त्यमेव । ईयसश्च ॥ बहुश्रेयसीशब्दे श्रेयसीशब्दस्यैव प्रत्यग्रहणपरिभाषया ईयसन्तत्वादाह । ईयसन्तोत्तरपदादिति ॥ बहुव्रीहिणा उत्तरपदादित्याक्षिप्यते इति भावः । न कबिति ॥ ‘न संज्ञेयसो-’ इति वक्तव्ये प्रथग्योगकरणात् नित्यस्य वैकल्पिकस्य च कपोऽय न्निषेध इति भावः । श्रेयांस इति ॥ अतिशयेन प्रशस्ता इत्यर्थः । 'द्विवचनविभज्य' इति ईयसुन् । 'प्रशस्यस्य श्रः' इति श्रः, “आद्गुणः’ इति गुणः । बहुश्रेयानिति ॥ शैषिकः कब्निषिध्द्यते । हृस्वत्वे प्राप्ते इति । वह्वयः श्रेयस्यः यस्येति बहुव्रीहिः । तत्र श्रेयसीशब्दस्यो पसर्जनस्त्रीप्रत्ययान्तत्वात् “गोस्त्रियोः' इति ह्रस्वत्वे प्राप्ते इत्यर्थः । ईयसो बहुव्रीहेरिति ॥ ईयसन्तात् बहुव्रीहेः परस्य स्त्रीप्रत्ययस्य ह्रस्वो नेति वाच्यमित्यर्थः । बहुश्रेयसीति ॥ ‘नद्यृतश्च' इति नित्यः कबिह निषिध्द्यते । लिङ्गविशिष्टपरिभाषया ईयस्ग्रहणेन स्त्रीप्रत्ययान्तश्रेयसीशब्दस्यापि ग्रहणादिति भावः । बहुव्रीहेः किमिति । “ईयसो बहुव्रीहेः' इत्यत्रेति शेषः । अतिश्रेय सिरिति ॥ श्रेयसीमतिक्रान्तः इति तत्पुरुषोऽयमिति भावः । वन्दिते भ्रातुः ॥ पूजितेऽर्थे इति ॥ “वदि अभिवादनतुल्योः' इत्युभयार्थकवदिधातोरिह उभयसाधारणपूजार्थकत्वमाश्रीयते इति भावः । प्रशस्तभ्रातेति ॥ ‘नद्यृतश्च' इति प्राप्तः कबिह निषिध्यते । सुभ्रातेति ॥ सु शोभनो भ्राता यस्य स इति विग्रहः । अत्रापि “नद्यृतश्च' इति प्राप्तख्य कपो निषेधः । ननु

  • न पूजनात्' इत्येव निषेधे सिद्धे किमर्थमिदमित्यत आह । न पूजनादिति॥ प्रागेवेति ॥

एवञ्च 'नद्यृतश्च' इत्यादिकपः तेन निषेधाप्राप्तौ इदं वचनमिति भावः । नाडीतन्त्र्योस्वाङ्गे ॥ बहुनाडिः कायः इति ॥ प्राणिस्थत्वातू स्वाङ्गत्वसूचनाय काय इति विशेष्यम्, उपसर्जन ह्रस्वः । ‘नद्यृतश्च' इति प्राप्त कप् न भवति । बहुतन्त्रीर्ग्रवेति ॥ बह्वयः तन्त्र्यः यस्या