पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/७४

एतत् पृष्ठम् परिष्कृतम् अस्ति
५८८
[बहुव्रीहि
सिद्धान्तकौमुदीसहिता

बहुतन्त्रीर्ग्रीवा । बहुतन्त्रीर्धमनी । स्त्रीप्रत्ययान्तत्वाभावाद्रस्वो न । “स्वाङ्गे किम् । बहुनाडीकः स्तम्भः । बहुतन्त्रीका वीणा ।

८९७ । निष्प्रवाणिश्च । (५-४-१६०)

कबभावोऽत्र निपात्यते । प्रपूर्वाद्वयतेर्ल्युट् । प्रवाणी तन्तुवायशलाका । निर्गता प्रवाण्यस्य निष्प्रवाणिः पटः । समाप्तवानः । नव इत्यर्थः ।

८९८ । सप्तमीविशेषणे बहुव्रीहौ । (२-२-३५)

सप्तम्यन्तं विशेषणं च बहुव्रीहौ पूर्व प्रयोज्यम् । कण्ठेकालः । अत एव ज्ञापकाठ्चधिकरणपदो बहुव्रीहिः । चित्रगुः । “सर्वनामसङ्ख-ययोरुपसङ्खयानम् (वा १४१९) । सर्वश्चेतः । त्रिशुक्लः । “ मिथोऽनयोः समासे संख्या पूर्वम्


इति विग्रहः । वीणातन्तुषु तन्त्राशब्दस्य प्रसिद्धत्वादाह। बहुतन्त्रीर्धमनीति ॥ बहुतन्त्रीशब्दे गोस्त्रियोः' इति ह्रस्वमाशङ्कय आह । स्त्रीप्रत्ययान्तत्वाभावादिति । 'अवितृस्तृतन्त्री भ्य ई: ' इत्यौणादिकस्य “स्त्रियाम्' इत्यधिकारेऽविहितत्वादिति भावः । निष्प्रवाणिश्च । प्रपूर्वादिति । “वेञ् तन्तुसन्ताने' इत्यस्मात् प्रपूर्वात् “करणाधिकरणयोश्च' इत्यधिकरणे ल्युट् । प्रोयते अस्यामिति प्रवाणी । “पूर्वपदात् संज्ञायाम्' इति णत्वम् । समाप्तवान इति। समाप्तं वान वानांक्रया यस्येति विग्रहः। अत्र शैषिककबभावो निपात्यते सप्तमीविशेषणे ।। ‘उपसर्जनं पूर्वम्’ इत्यतः उपसर्जनमित्यनुवर्तते । प्रत्ययग्रहणपरि . भाषया सप्तमीति तदन्तग्रहणम् । तदाह । सप्तम्यन्तमिति । कण्ठेकाल इति ॥ कण्ठे तिष्ठतीति कण्ठेस्थः । स कालो यस्येति विग्रहः । सुपीति योगविभागात् कः । “सप्तम्यु पमानपूर्वपदस्य’ इति बहुव्रीहिसमासः, स्थशब्दलोपश्च, इति “ अनेनकमन्यपदार्थे' इति सूत्रभाष्ये स्पष्टम् । “अमूर्धमस्तकात्' इति सप्तम्या अलुक् । अत एवेति । यद्यपि कण्ठेस्थशब्दः प्रथमान्तएवात्र बहुव्रीहौ पूर्वपदम्, तस्य कालशब्देन सामानाधिकरण्यमस्त्येवेति, कथं सप्तमीग्रहणं व्यधिकरणपद्बहुव्रीहिज्ञापकम् । किं च विशेषणत्वादेव सिद्धे किं वा सप्तमीग्रहणेन । तथापि यदा स्थपदमनादृत्य कण्ठेऽइत्यस्याधिकरणत्वं तस्य च कालरूपे उत्तरपदार्थे उपसंक्रमः, तदा कण्ठे इत्यस्या प्रथमान्तत्वात् बहुव्रीहेरप्रसत्तेः तत्र सप्तम्यन्तस्य पूर्वनिपातविधिरभित्तिचित्रायितस्स्यात् । ततश्च सप्तमीग्रहणात् अप्रथमान्तोऽपि वहुव्रीहिः क्वचिदस्तीति विज्ञायते इति योज्यम् । तेन “सच्छा स्रजन्मा हि विवेकलाभः” इत्यादि सिद्धम् । चित्रगुरिति । उभयोरपि प्रथमानिर्दिष्टत्वेन विग्रहे नियतविभक्तिकत्वेन चान्यतरस्य पूर्वनिपाते प्राप्ते उत्तरपदविशेषणस्यैव पूर्वनिपातार्थ विशेषणग्रहणमिति भावः । सर्वनामसङ्खययोरिति । बहुव्रीहौ पूर्वनिपातस्येति शेषः । सर्वेश्वेत इति ॥ सर्वः श्वेतः यस्येति विग्रहः । उभयोरपि गुणवचनत्वेन विशेषणविशेष्य १. अत्र च “अथ यत्र संख्यासर्वनाम्नोरेव बहुव्रीहिः । कस्य तत्र पूर्वनिपातेन भवितव्यम् । परत्वात्सङ्खयायाः' इति भाष्यं मानम् ।