पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/७५

एतत् पृष्ठम् परिष्कृतम् अस्ति
समासप्रकरणम्]
५८९
बालमनोरमा

शब्दपरविप्रतिषेधात्' (वा ५०४४) । व्द्यन्यः । “ संख्याया अल्पीयस्याः' (वा १४१७)। द्वित्राः । द्वन्द्वेऽपि । द्वादश । ‘वा प्रियस्य' (वा १४२०) । गुडप्रियः प्रियगुडः ।'गड्वादेः परा सप्तमी' (वा १४२१) । गडुकण्ठः । कचिन्न। वहेगडुः।

८९९ । निष्ठा । (२-२-३६)

निष्टान्तं बहुव्रीहौ पूर्व स्यात् । कृतकृत्यः । “जातिकालसुखादिभ्यः परा निष्ठा वाच्या' (वा १४२२) । सारङ्गजग्धी । मासज्जाता । सुखजाता । प्रायेिकं चेदम्' कृतकटः। पीतोदकः।


भावे कामचारात् अन्यतरस्य पूर्वनिपाते प्राप्ते सर्वनामत्वात् सर्वशब्दस्यैव पूर्वनिपातः । उपसर्ज नत्वेऽपि भूतपूर्वगत्या सर्वनामत्वम् । त्रिशुक्ल इति ॥ त्रयः शुक्ला यस्येति विग्रहः । उभयो रपि सङ्खयेयत्वात् त्रिशब्दस्यैव पूर्वनिपातः । द्विशुक्लः इत्यत्र तु सर्वनामत्वादेव सिद्धम् । ननु द्वौ अन्यौ यस्य व्द्यन्यः इति बहुव्रीहौ सर्वनामसङ्खययोरन्यतरस्य पूर्वनिपातः स्यादित्यत आह । मिथोऽनयोरिति ॥ सर्वनामसङ्खययोरित्यर्थः । सङ्खयापूर्वमिति । प्रयोज्येति शेषः । शब्दपरेति ॥ एकस्मिन्नेव सूत्रे सर्वनामसङ्कयोस्समासोपात्तत्वेऽपि सर्वनाम सङ्खयाशब्दयोस्सङ्खयाशब्दस्य पाठतः परत्वमादाय विप्रतिषेधसूत्रप्रवृत्तेरित्यर्थः । सङ्खयाया अल्पीयस्याः इति ॥ न्यूनाधिकसङ्खयावाचकशब्दानां समासे न्यूनसङ्खयायाः पूर्वं प्रयोगः इति वक्तव्यमित्यर्थः । द्वित्रा इति ॥ द्वौ वा त्रयो वेति विग्रहे 'सङ्खययाव्यय' इति बहुव्रीहिः। ननु 'द्वन्द्वे घि' इत्यतः द्वन्द्वे इत्यनुवृत्तौ ‘अल्पाच्तरम्’ इति सूत्रभाष्येऽस्य वार्तिकस्य पाठात् बहुव्रीहौ कथमस्य प्रवृत्तिरित्यत आह । द्वन्द्वेऽपीति ॥ इदश्च वार्तिकं द्वन्द्वेऽद्वन्द्वेऽपि प्रवर्तते इत्यर्थः । द्वादशेति ॥ द्वौ च दश च इति द्वन्द्वः । तत्पुरुषे तु शतानां विंशतिः विंशतिशतमित्युदाहार्यम् । “तदस्मिन्नधिकामिति “दशान्ताः ’ इति सूत्रभाष्ये सहस्राणां शतम् इत्यर्थे शतसहस्रमिति भाष्यकैयटयोः प्रयोगोऽत्र मानमिति शब्देन्दुशेखरे स्थितम् । वा प्रियस्येति ॥ बहुव्रीहौ पूर्व प्रयोगो वक्तव्य इत्यर्थः । गङ्वादेः परा सप्तमीति ॥ बहुव्रीहौ पूर्व योज्येति वक्तव्यमिति शेषः । गडुकण्ठ इति ॥ गडुः कण्ठे यस्येति विग्रहः । गडुर्नाम ग्रीवादिगतो दुर्मासगोळः । असंज्ञात्वात् “हलदन्तात्’ इत्यलुक् न । क्वचिन्नेति ॥ व्याख्यानमेवात्र शरणम् । वहेगडुरिति ॥ वहः स्कन्धः तस्मिन् गडुर्यस्येति विग्रहः । निष्ठा ॥ निष्ठान्तमिति ॥ 'क्तत्क्तवतू निष्ठा' इति वक्ष्यति । तदन्तमित्यर्थः । कृतकृत्य इति ॥ कृतं कृत्यं येनेति विग्रहः । उभयोरपि क्रियाशब्दत्वात् विशेषणत्वे कामचारात् अन्यतरस्य पूर्वनिपाते प्राप्ते निष्ठान्तस्य पूर्वनिपातः । जातिकालेति ॥ 'जातिकालसुखा दिभ्योऽनाच्छादनात् त्क्तः' इति स्वरविधिना ज्ञापितमिदमिति भाष्ये स्पष्टम् । जातिपूर्वस्यो दाहरणमाह । सारङ्गजग्धीति ॥ सारङ्गः जग्धः भक्षितः यया इति विग्रहः । “ अस्वाङ्गपूर्व पदाद्वा' इति डीष् । कालपूर्वस्योदाहरति । मासजातेति ॥ मासः जातः यस्या इति विग्रहः । टाप् । सुखपूर्वस्योदाहरति। सुखजातेति । सुखं जातं यस्या इति विग्रहः । प्रायिकमिति ॥