पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/७६

एतत् पृष्ठम् परिष्कृतम् अस्ति
५९०
[बहुव्रीहि
सिद्धान्तकौमुदीसहिता

९०० । वाऽहिताग्न्यादिषु । (२-२-३७)

आहिताग्निः । अग्न्याहितः । आकृतिगणोऽयम् । * प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ' (वा १४२५) । अस्युद्यतः । दण्डपाणिः । क्वचिन्न । विवृतासिः।

इति बहुव्रीहिसमासप्रकरणम् ।


व्याख्यानमेवात्र शरणम् । कृतकट इति । कृतः कटः येनेति विग्रहः । अत्र कटत्वस्य जातित्वेऽपि न कृतशब्दस्य परनिपातः । पीतोदक इति ॥ पतिम् उदकं येनेति विग्रहः । उदकत्वस्य जातित्वेऽपि न पीतशब्दस्य परनिपातः । वाऽहिताग्न्यादिषु । निष्ठायाः पूर्वे प्रयोग इति शेषः । आहिताग्निरिति ॥ आहिताः आधानेन संस्कृताः अग्नयः येनेति विग्रहः । प्रहरणार्थेभ्य इति । आयुधार्थेभ्य इत्यर्थः । निष्ठायामुदाहरति । अस्युः द्यत इति ॥ आसिः उद्यतः येनेति विग्रहः । सप्तम्या उदाहरति । दण्डपाणिरिति । दण्डः पाणौ यस्येति विग्रहः । * निष्ठा' इत्यस्य “सप्तमीविशेषणे ' इत्यस्य चायमपवादः । क्वचिन्नेति । व्याख्यानमेवात्र शरणम् । विवृतासिरिति । विवृतः कोशान्निष्कासितः असिर्येनेति विग्रहः । एवंजातीयान्याहिताग्नयादित्वकल्पनया समाधेयानीत्याहुः ॥ इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां बहुव्रीहिसमासनिरूपणम् ।