पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/७७

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीरस्तु ।

९०१ । चार्थे द्वन्द्वः। । (२-२-२९)

अनेकं सुबन्तं चार्थे वर्तमानं वा समस्यते, स द्वन्द्वः । समुचयान्वाचये तरेतरयोगसमाहाराश्चार्थाः । ‘परस्परनिरपेक्षस्यानेकस्यैकस्मिन्नन्वयः समुच्चयः'। अन्यतरस्याऽऽनुषङ्गिकत्वेऽन्वाचयः' । “मिलितानामन्वये इतरेतरयोग समूहः समाहारः' । “तत्रेश्वरं गुरुं च भजस्व' इति समुच्चये * भिक्षामट


अथ द्वन्द्वसमासनिरूपणम्-चार्थे द्वन्द्वः ॥ ‘सुबामन्त्रिते' इत्यतस्सुबिति, ‘अने कमन्यपदार्थे' इत्यतः अनेकमिति चानुवर्तते । समास इति विभाषा इति चाधिकृतम् । तदाह । अनेकमित्यादिना ॥ कश्चार्थ इत्यत आह । समुच्चयेति ॥ “चान्वाचयसमा हारेतरेतरसमुच्चये” इत्यमरः । तत्र समुच्चयं निर्वक्ति । परस्परेति ॥ एकस्मिन्निति ॥ एकस्मिन् क्रियापदे आवृत्ते एकस्य असमस्यमानपदस्य प्रथममन्वयः । तदनन्तरमन्यस्यान्वयो यत्र तत्र समुच्चयः चार्थ इत्यर्थः । यथा “ईश्वरं गुरुं च भजस्व' इति । तत्र हि चशब्दयोगात् गुरोः ईश्वरसापेक्षत्वम्, तस्य चकारयोगाभावात् । अत एवात्र एक एव चशब्दः प्रयुज्यते । एवञ्च ईश्वरश्च भजस्व, गुरुश्च भजस्व, इति वाक्यद्वयं पर्यवस्यति । अथान्वाचयं लक्षयति । अन्यतरस्येति ॥ यत्रान्यतरस्य पदस्यैकस्मिन् क्रियापदे आनुषङ्गिकत्वेन परार्थप्रवृत्ति विषयत्वेनान्वयः, इतरस्य तु पदस्यान्यस्मिन् क्रियापदे उद्देश्यत्वेनान्वयश्च, तत्रान्वाचयश्चार्थ इत्यर्थः । यथा भिक्षामट, गां चानय, इति । “ अट गतौ' । भिक्षामटनेन प्राप्नुहीत्यर्थः । भिक्षामट, तदा गौस्सङ्गता चेत् तामप्यानय, नतु गवानयने ऐदम्पर्येण प्रयतितव्यमिति तात्पर्यार्थः । इतरेतरयोगं लक्षयति । मिळितानामिति ॥ परस्परापेक्षितानां समुदिताना मेकस्मिन् क्रियापदेऽन्वयो यत्र तत्रेतरेतरयोगः । परस्परसाहचर्ये चार्थः प्रत्येतव्य इत्यर्थः । यथा धवश्च खदिरश्च धवखदिराविति । अत्र परस्परसाहित्यसूचनाय चकारद्वयप्रयोगः । अथ समाहारं लक्षयति । समूहस्समाहार इति ॥ परस्परसाहित्यमित्यर्थः । यथा संज्ञापरिभाषयोस्समूहः संज्ञापरिभाषामिति, तत्रेतरेतरयोगद्वन्द्वे साहित्यं द्रव्यविशेषणम् । यथा धवखदिरौ छिन्धीति । समुदिताविति गम्यते । समाहारद्वन्द्वे तु समूहो विशेष्यम् । यथा संज्ञापरिभाषमिति । तयोस्समूह इति गम्यते । संज्ञापरिभाषमधीते इत्यादौ समूहस्य क्रियान्वयस्तु समूहिद्वारा बोध्य इत्यलम् । तत्रेति । तेषु चार्थेषु समुच्चयेऽन्वाचये च न द्वन्द्वसमास इत्यन्वयः । ईश्वरं गुरुं च भजस्वेति । समुचयोदाहरणमिदम् । भिक्षामट