पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/७८

एतत् पृष्ठम् परिष्कृतम् अस्ति
५७८
[बहुव्रीहि
सिद्धान्तकौमुदीसहिता

गां चानय' इत्यन्वाचये' च न समासोऽसामर्थ्यात् । धवखदिरौ । संज्ञा परिभाषम् । अनेकोत्तेहतृपोतृनेष्टोद्भातारः । र्द्वयोर्द्वयोर्द्वन्द्वं कृत्वा पुनर्द्वन्द्वे तु होतापोतानेष्टोद्भातारः।

९०२ । राजदन्तादिषु परम् । (२-२-३१)

एषु पूर्वप्रयोगार्हं परं स्यात् । दन्तानां राजा राजदन्त । * धर्मादिष्व नियमः' (वा १४१८) । अर्थधर्मो-धर्मार्थो । दम्पती-जम्पती-जायापती । जायाशब्दस्य जम्भावो दम्भावश्च वा निपात्यते । आकृतिगणोऽयम् ।


गां चानयेत्युदाहरणं चानुपदमेव व्याख्यातम् । असामर्थ्यादिति । ईश्वरं गुरुं च इत्यत्रोक्तरीत्या ईश्वरगुरुशब्दयोः परस्परनिरपेक्षयोरावृत्ते भजस्वेति पदे क्रमेणान्वयात् परस्पर मन्वयाभावादसामर्थ्यम् । भिक्षामट, गां चानय, इत्यत्र तु भिक्षागवोरटने आनयने च क्रमेण परस्परवार्तानभिज्ञयोरेवान्वयात् परस्परान्वयाभावादसामर्थ्यं स्पष्टमेव । ततश्च इतरे तरयोगसमाहारयोरेव चार्थयोः परस्परसाहित्यसत्त्वात् समर्थत्वेन द्वन्द्वसमासः । विस्तरस्तु मञ्जूषायां द्रष्टव्यः । इतरेतरयोगमुदाहरति । धवखदिराविति ॥ धवश्च खदिरश्चेति द्वन्द्वः । धवो वृक्षविशेषः, खदिरः प्रसिद्धः, तौ समुदिताविति बोधः । समाहारे तूदाहरति । संज्ञेति ॥ संज्ञा च परिभाषा च तयोस्समाहारः इति विग्रहः । समाहारस्यैकत्वादेकवचनम् । स नपुंसकम्' इति नपुंसकत्वम् । ननु चार्थे द्वन्द्वः’ इत्यत्र 'सुप्सुपा' इत्यनुवृत्त्यैव धवखदिरा वित्यादिसिद्धेरनेकग्रहणानुवृत्तिर्व्यर्थेत्यत आह । अनेकोक्तरिति ॥ होतृपोत्रिति ॥ होता च पोता च नेष्टा च उद्भाता च इति विग्रहे बहूनामपि द्वन्द्वार्थमनेकग्रहणमिति भावः । आनङृतो द्वन्द्वे' इति नेष्टृशब्दस्यैव उत्तरपदपरकत्वात् आनङ्, नतु होतृपोतृशब्दयोरपि । उत्तरपदस्य मध्द्यमपदव्यवहितत्वेन होतृपोतृशब्दयोरुत्तरपदपरकत्वाभावात् । ननु तर्हि होता पोतानेष्टोद्भातारः इति कथमित्यत आह । द्वयोरिति ॥ होता च पोता चेति द्वयोर्द्धन्द्रः । होतृशब्दस्य आनङ् । ततश्च नेष्टा च उद्भता चेति द्वयोर्द्धन्द्वः । नेष्टशब्दस्यानङ् । ततः होतापोतारौ च नेष्टोद्भातारौ चेति द्वन्द्वद्वयगर्भों द्वन्द्वः । तत्र नेष्टोद्भातृशब्दे उत्तरपदे होतापोतृ शब्दस्य आनङित्यर्थः । आनङि डकार इत। डित्वादन्तादेशः । अकार उच्चारणार्थः । अन्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वान्नस्य लोपः । नेष्टोद्भातृशब्दे आद्गुणश्च । राजदन्तादिषु परम् ॥ उपसर्जनं पूर्वम्’ इत्यनुवर्तते । तदाह । एष्विति ॥ राजदन्तादिष्वित्यर्थः। पूर्वप्रयोगार्हमित्यत प्राक् उपसर्जनमिति शेषः । राजदन्त इति ॥ दन्तशब्दस्य षष्ठीतत्पुरुषेऽप्रधानतयोप सर्जनत्वेऽपि परनिपातः । इह गणे राजदन्ताग्रेवणादिशब्दास्तत्पुरुषाः, विष्वक्सेनार्जुनादयः द्वन्द्वाश्च पठिताः । अतो द्वन्द्वप्रकरणे तदुपन्यासः । विष्वक्सेनार्जुनावित्यत्राजाद्यदन्ताभत्यर्जुन शब्दस्य पूर्वनिपाते प्राप्ते परनिपातः । धर्मादिष्वनियम इति ॥ गणसूत्रमिदम् । अन्य तरस्य पूर्वनिपात इत्यर्थः । अर्थधर्माविति ॥ अजाद्यदन्तशब्दस्य पूर्वनिपातनियमे प्राप्ते