पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/८०

एतत् पृष्ठम् परिष्कृतम् अस्ति
५९४
[द्वन्द्व
सिद्धान्तकौमुदीसहिता

प्रीष्मवसन्तौ लध्वक्षरं पूर्वम्’ (वा १४१३) । कुशकाशम् अभ्यर्हितं च' (वा १४१२) । तापसपर्वतौ वर्णानामानुपूर्व्येण' (वा १४१५) ब्राह्मणक्षत्रियविट्छूद्रा भ्रातुर्ज्यायस:' (वा १४१६) । युधिष्ठिरार्जुनौ

९०६ । द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् । (२-४-२)

एषां द्वन्द्वः एकवत्स्यात् । पाणिपादम् । मार्दङ्गिकपाणविकम् । रथि काश्वारोहम् । समाहारस्यैकत्वादेकत्वे सिद्धे नियमार्थै प्रकरणम् । प्राण्यङ्गा दीनां समाहार एव यथा स्यात्


कृत्तिकादिनक्षत्राणामपि । ग्रीष्मवसन्ताविति विषमाक्षरत्वान्न वसन्तस्य पूर्वनिपातः। किन्तु अल्पाच्त्वात् ग्रीष्मस्य पूर्वनिपातः।लघ्वक्षरं पूर्वम्। लघु अक्षरमच् यस्य तत् द्वन्द्वे पूर्वे प्रयोज्यमिति वक्तव्यमित्यर्थः। कुशकाशमिति॥ समाहारद्वन्द्वोऽयम् । अभ्यः र्हितं चेति ॥ श्रेष्ठः पूर्वः प्रयोज्य इति वक्तव्यमित्यर्थः। तापसपर्वताविति ॥ पर्वतस्य स्थावरजन्मतया तापसस्य तदपक्षया अभ्यार्हितत्वं बोध्यम् । भाष्ये तु मातापितरावित्युदा हृतम्। गर्भधारणपोषाभ्यां पितुर्माता गरीयसी' इत्यादिस्मृतेरिति तदाशयः । वर्णा नामानुपूर्व्येणेति ॥ एषां क्रमेण पूर्वनिपातः। ब्रह्मक्षत्रियविट्छूद्रा वर्णाः” इत्यमरः। तेषामानुपूर्व्यन्तु “प्रजापतिरकामयत प्रजायेति, समुखतस्तृवृतं निरमिमीत” इत्यादितत्ति रीयब्राह्मणादिसिद्धम् । भ्रातुर्ज्यायसः इति ॥ ज्येष्ठभ्रातुः पूर्वनिपातः इत्यर्थः । अत्र 'द्वन्द्वे धि' * अजाद्यदन्तम्' इति विधिद्वयम् “ अल्पाच्तरम्, लघ्वक्षरं पूर्वम्, ऋतुनक्षत्राणाम् अभ्यर्हितं च, भ्रातुर्ज्ययसः’ इति विधिभिः परत्वात् बाध्यते। भाष्ये तु सर्वत एवाभ्यर्हितं पूर्वनिपातमिति मतान्तरं स्थितम् । द्वन्द्वश्च प्राणि।। प्राणितूर्यसेनाङ्गानीति द्वन्द्वगर्भषष्ठी समासः। द्वन्द्वान्ते श्रूयमाणः अङ्गशब्दः प्रत्येकं सम्बद्धद्यते इत्यभिप्रेत्य आह। एषामिति॥ प्राण्यङ्गानां तूर्यङ्गानां सेनाङ्गानां चेत्यर्थः । द्वन्द्वः इति ॥ समाहारद्वन्द्वः इत्यर्थः।द्विगुरेक वचनम्’ इति पूर्वसूत्रे ‘समाहारग्रहणं कर्तव्यम्’ इति वार्तिकस्यात्राप्यनुवृत्तेः। एकवदिति।। एकवचनमित्यनुवर्तते । एकं वक्तीत्येकवचनम् । कर्तरि ल्युट्। सामान्याभिप्रायं नपुंसकम्। पाणिपादमिति ॥ पाण्योः पादयोश्च समाहार इति विग्रहः। अत समाहारे एकवत्त्वं स नपुंसकम्' इति नपुंसकत्वं च । पाण्योः पादयोश्च प्राण्यवयवत्वात् प्राण्यङ्गोदाहरणमिदम् अथ तूर्याङ्गद्वन्द्वे उदाहरति । मार्दङ्गिकपाणविकमिति मृदङ्गपणवशब्दौ वाद्यविशेष परौ । इह तु तद्वादनेऽपि वर्तते । मृदङ्गवादनं शिल्पमस्येत्यर्थे 'शिल्पम्’ इति ठक् । मार्दङ्गिक पाणविकयोस्समाहार इति विग्रहः । तूर्याङ्गत्वादेकवचनम् । तूर्याङ्गत्वं च तद्वादकतया बोध्यम्। स नपुंसकम्' इति नपुंसकत्वम् । सेनाङ्गद्वन्द्वे उदाहरति । रथिकाश्वारोहमिति।। रथेन चरन्तीति रथिकाः । पर्यादिभ्यः ष्ठन् । रथिकानामश्वारोहाणां च समाहार इति विग्रहः । सेना वयवत्वादेकवत्वम् । पूवेवन्नपुंसकत्वम् । ननु समाहारद्वन्द्वे समाहारस्य विशेष्यत्वात् तस्य चैक त्वादिदै सूत्रं व्यर्थमित्यत आह । समाहारस्यैकत्वादिति ॥ समाहार एवेति ॥ न ४ ४