पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/८३

एतत् पृष्ठम् परिष्कृतम् अस्ति
समासप्रकरणम्]
५९५
बालमनोरमा

९११ । विशिष्टलिङ्गो नदीदेशोऽग्रामाः । (२-४-७ )

ग्रामवर्जनदीदेशवाचिनां भिन्नलिङ्गानां समाहारे द्वन्द्वः एकवत्स्यात् । उद्धयश्च इरावती च । उद्धयेरावति । गङ्गा च शोणश्च गङ्गाशोणम् । कुरवश्च कुरुक्षेत्रं च कुरुकुरुक्षेत्रम् । “भिन्नलिङ्गानाम्' किम् । गङ्गायमुने । मद्र केकयाः । “अग्रामाः' किम् । जाम्बवं । शालूकिनी ग्रामः ।

९१२ । क्षुद्रजन्तवः । (२-४-८)

एषां समाहारे एव द्वन्द्वः एकवत्स्यात् । यूकालिक्षम् । आनकुलात्क्षुद्रजन्तवः।

९१३ । येषां च विरोधः शाश्वतिकः । (२-४-९)

एषां प्राग्वत् । * अहिनकुलम्' *गोव्याघ्रम्’ काकोलूकम्' इत्यादौ परत्वात् । “विभाषा वृक्षमृग–' (सू ९१६) इति प्राप्तं चकारेण बाध्यते ।


मलकत्वादिजातिभ्याम् आरण्यत्वादिविशेषितकतिपयव्यक्तीनामेवोपस्थितिः । ग्राम्यानां व्यक्तीना मनुपस्थितेः तयोजात्योरप्राधान्यात् नायमेकवद्भाव इत्यर्थः। क्षीरादके सम्पृक्त्ते इत्यन्तादिवत्सूत्र भाष्यप्रयोगोऽत्र लिङ्गमित्याहुः । विशिष्टलिङ्गो नदीदेशोऽग्रामाः ॥ अग्रामा इति च्छेदः । व्यत्ययेन बहुत्व एकवचनम्। विपूर्वकशिषधातुः भेदे वर्तते। विशेषणं विशेष्येणेत्यादौयथा। विशिष्टं लिङ्गं येषामिति विग्रहः। तथाच ग्रामवाचकभिन्नाः भिन्नलिङ्गकाःये नदीवाचिनःये देशवाचिनश्च तेषां द्वन्द्व एकवत् स्यादिति लभ्यते । तदाह। ग्रामवर्जेति ॥ समाहार एव द्वन्द्वस्यादित्येकवत्त्वविधे- फलाभिप्रायमेतत् । अस्यैकवद्भावप्रकरणस्य समाहार एव द्वन्द्वनियमार्थतयानुपदमेवोक्तत्वात् । उध्ध्यश्चेति । उध्ध्यो नाम नदविशेषः, इरावती नाम काचिन्नदी, तयोर्नदीविशेषवाचकत्वादेक वत्वम् । नदीशब्देन नदस्यापि ग्रहणात् । अन्यथा भिन्नलिङ्गत्वासम्भवादिति भावः । जाम्बव शालूकिन्याविति ॥ “अग्रामाः' इत्यनेन ग्रामावयवकद्वन्द्वपर्युदासो विवक्षितः । अयं च द्वन्द्वः नगरग्रामोभयावयवकोऽपि ग्रामावयवक इति तस्य पर्युदास इति भावः । क्षुद्रजन्तवः ॥ एतेषां द्वन्द्वः एकवदित्यर्थः । फलितमाह । एषां समाहारे एव द्वन्द्व इति ॥ यूका लिक्षमिति ॥ यूकाश्च लिक्षाश्चेति विग्रहः । केशवहुळे शिरःप्रदेशे स्वेदजाः जन्तुविशेषाः यूकाः लिक्षाश्च प्रसिद्धाः । एकवत्त्वं नपुंसकह्रस्वत्वं च । आ नकुलादिति । “नकुल पर्यन्ताः क्षुद्रजन्तवः' इति भाष्यादिति भावः । येषां च ॥ शेषपूरणेन सूत्रं व्याचष्टे । एषां प्राग्वदिति । समाहारद्वन्द्वः एकवदित्यर्थः । शश्वदित्यव्ययं सदेत्यर्थे वर्तते । ततो भवार्थे निपातनाठक् । अव्ययानां भमात्रे टिलोपः, “इसुमुक्तान्तात्कः' इति कादेशश्च न भवति । स्वाभाविक इत्यर्थः । अहिनकुलमिति । अहयो नकुलाश्चेति विग्रहः । अनयोः स्वाभाविको विरोधः प्रसिद्धः । विरोधो वैरम्, नतु सहानवस्थितिः । तेन च छायातपावित्यत्र न भवति ।