पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/८४

एतत् पृष्ठम् परिष्कृतम् अस्ति
५९८
[द्वन्द्व
सिद्धान्तकौमुदीसहिता

९१४ । शूद्राणामनिरवसितानाम् । (२-४-१०)

अबहिष्कृतानां शूद्राणां प्राग्वत् । तक्षायस्कारम् । पात्राद्वहिष्कृतानां तु चाण्डाळमृतपाः ।

९१५ । गवाश्वप्रभृतीनि च । (२-४-११)

यथोच्चारितानि साधूनि स्युः । गवाश्वम् । दासीदासमित्यादि ।

९१६ । विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्वबडब पूर्वापराधरोत्तराणाम् । (२-४-१२)

वृक्षादिनां सप्तानां द्वन्द्वः, अश्वबडबेत्यादि द्वन्द्वत्रयं च प्राग्वद्वा

  • वृक्षादौ विशेषाणामेव ग्रहणम्’ (वा ५१८) । प्लक्षन्यग्रोधम्-प्लक्षन्यग्रोधाः ।

देवासुराः इत्यत्र तु नायमेकंवद्भावः । तद्विरोधस्य कादाचित्कत्वात् । अमृतादिप्रयुक्तः खलु कादाचित्क एव हि तेषां विरोधः । अमृतमथनादिकाले तेषां विरोधाभावात् । ननु “विभाषा वृक्षमृग' इति सूत्रे पशुशकुनिद्वन्द्वयोरेकवद्रावविकल्पो वक्ष्यते । तस्य तावत् गोमहिषं-गोमहिषाः हंसचक्रवाकम्-हसचक्रवाकाः, इत्यत्रावकाशः । येषां चेत्यस्य आहिनकुलमित्यवकाशः । गोव्याघ्रं काकोलूकमित्यादौ तदुभयं प्रसक्तम् । तत्र परत्वाद्वक्ष्यमाणविभाषा प्राप्नोतीत्याशङ्कय आह । गोव्याघ्रमिति।चकारेणेति।येषाश्चेति चकारेणेत्यर्थः। तच्च भाष्ये स्पष्टम्। शूद्राणाम्। अनिरवसितशब्दं व्याचष्टे। अबहिष्कृतानामिति ॥ “यैर्मुक्तं पात्रं क्षारोदक प्रक्षाळनेन संस्कारणापि न शुध्यति ते निरवसिताः चाण्डाळादयः । यैस्तु भुक्तं पात्रं संस्कारेण शुध्यति तेऽनिरवसिताः” इति भाष्ये स्पष्टम् । शूद्राणामिति । त्रैवर्णिकेतरः शूद्रशब्देन विवक्षितः । अनिरवसितानामिति लिङ्गात् । प्राग्वदिति । समाहारद्वन्द्व एक वदित्यर्थः । तक्षायस्कारमिति । तक्षाणश्च अयस्काराश्चेति विग्रहः । अनिरवसिताना मित्यस्य प्रयोजनमाह । पात्रादिति । चाण्डाळमृतपा इति । एतद्भुक्तपात्रस्य संस्कारेणापि नास्ति शुद्धिरिति अत एव भाष्याद्विज्ञेयम् । धर्मशास्त्रषु च प्रसिद्धमेतत् । गवाश्वप्रभृतीनि च ॥ यथा गणे पठितानि तथैव साधूनीत्यर्थः । गवाश्वमिति । गाव श्चाश्वाश्चेति विग्रहः । अत्र 'विभाषा वृक्ष' इति पशुद्वन्द्वत्वात् विकल्पे प्राप्ते नित्योऽयं विधिः । अत्र सर्वत्र विभाषा' इति प्रकृतिभावे पूर्वरूपे च गो अश्व गोऽश्वमिति नैकवत्त्वनियमः । यथोच्चारितानी त्युक्तेः । गणे च गवाश्वमित्येव निर्देशात् । गवाश्वादिषु “यथोच्चारितद्वन्द्ववृत्तम्' इति वार्तिकमत्र मानम् । दासीदासमिति ॥ अत्रैकवत्वनियमः । 'पुमां स्त्रिया' इत्येकशेषस्तु निपातनान्न । इत्यादीति । गवैळकमित्यादि वृत्तौ स्पष्टम् । विभाषा वृक्ष ॥ द्वन्द्व इत्यनुवृत्तम् । एकापि षष्ठी विषयभेदात् भिद्यते । वृक्षादिसप्तानामवयवत्वेनान्वयः वृक्षादीनां द्वन्द्व इति । तथाच वृक्षाद्यवयवको द्वन्द्र इति लभ्यते । अश्वबडबादियुगळत्रयस्यत्वभेदेनान्वयः । अश्वबडब, पूर्वापर अधरोत्तर, इत्यात्मको द्वन्द्र इति । तदाह । वृक्षादीनामिति । प्राग्वदिति ॥ विकल्पेन