पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/८५

एतत् पृष्ठम् परिष्कृतम् अस्ति
समासप्रकरणम्]
५९९
बालमनोरमा

रूरुपृषतम्-रूरुपृषताः । कुशकाशम्-कुशकाशाः । व्रीहियवम्-व्रीहियवाः । दधिघृतम्-दधिघृते । गोमहिषम्-गोमहिषाः । शुकबकम्-शुकबकाः । अश्व बडबम्-अश्वबडबौ । पूर्वापरम्-पूर्वापरे । अधरोत्तरम्-अधरोत्तरे। “ फलसेना वनस्पतिमृगशकुनिक्षुद्रजन्तुधान्यतृणानां बहुप्रकृतिरेव द्वन्द्वः एकवदिति वाच्यम् (वा १५४०) । बदराणि चामलकानि च बद्रामलकम् । “जातिरप्राणिनाम् (सू ९१०) इत्येकवद्भावः । नेह, बदरामलके । रथिकाश्वारोहौ, प्लक्षन्यग्रोधा वित्यादि । 'विभाषा वृक्ष-' (सू ९१६) इति सूत्रे येऽप्राणिनस्तेषां ग्रहणं जातिरप्राणिनाम्' (सू९१०) इति नित्ये प्राप्ते विकल्पार्थम् । पशुग्रहणं


एकवदित्यर्थः । वृक्षादाविति । वृक्षविशेषवचनां, तृणविशेषवाचिनां, धान्यविशेषवाचिनां, पशुः विशेषवाचिनांचेत्यर्थः। ‘स्वं रूपम्’ इति सूत्रे भाष्यवार्तिकयोस्तथोक्तत्वादिति भावः । तथाच वृक्षाश्च धवाश्चेत्यादौ नायं विधिरिति फलितम् । किन्तु “जातिरप्राणिनाम्' इति नित्यमेवैकवत्त्वम् । तत्र वृक्षाद्यवयवकद्वन्द्वेषु सप्तसु वृक्षद्वन्द्रमुदाहरति । प्लक्षेति । लक्षाश्च न्यग्रोधाश्चेति विग्रहः । मृगद्वन्द्वमुदाहरति । रुरुपृषतमिति । रुरवश्च पृषताश्चेति विग्रहः । तृणद्वन्द्वमुदाहरति । कुशेति । कुशाश्च काशाश्चेति विग्रहः । धान्यद्वन्द्वमुदाहरति । व्रीहीति । व्रीहयश्च यवाश्चेति विग्रहः । व्यञ्जनद्वन्द्वमुदाहरति । दधीति । दधि च घृतं चेति विग्रहः । पशुद्वन्द्व मुदाहरति । गोमहिषमिति। गावश्च महिषाश्चेति विग्रहः । शकुनिद्वन्द्वमुदाहरति। शुकेति ॥ शुकाश्च बकाश्चेति विग्रहः । अश्वबडवादिद्वन्द्वमुदाहरति । अश्ववडबमिति ॥ अश्वाश्च बडबाश्चेति विग्रहः । “पूर्ववदश्वबडबौ' इति अश्वबडबावित्यत्र पूर्वपदवत् पुल्लिङ्गता । फलसे नेति ॥ एकवद्भावप्रकरणशेषभूतमिदं वार्तिकम् । 'द्वन्द्वश्च प्राणि' इत्यादिसूत्रेः फलसेनादीनां द्वन्द्वे एकवद्भावात् बहुवचनान्तावयवक एव द्वन्द्वः एकवत् भवति । नत्वेकद्विवचनान्तावयवक इत्यर्थः । तत्र फलद्वन्द्वमुदाहरति । बदराणि चेति ॥ बदरीफलानि आमलकीफलानि चेत्यर्थः । विकारतद्धितस्य फले लुक् । 'लुक्तद्धितलुकेि' इति स्त्रीप्रत्ययस्य लुक् । जातिरिति ॥ बहु वचनान्तावयवकद्वन्द्वात् 'जातिरप्राणिनाम्' इत्येकवत्वमित्यर्थः । बहुप्रकृतिरेवेत्यस्य प्रयोजन माह । नेहेति । बदरामलके इति ॥ बदरं चामलकं चेति विग्रहः । बहुवचनान्तावयवक द्वन्द्वत्वाभावान्न “जातिरप्राणिनाम्' इत्येकवत्वम् । रथिकाश्वारोहाविति । अत्र सेनाङ्ग त्वेऽपि नैकवत्वम् । प्लक्षन्यग्रोधाविति ॥ इह वृक्षद्वन्द्वत्वेऽपि ‘विभाषा वृक्ष' इत्येकवत्व न । इत्यादीति ॥ रूरुपृषतौ । अत्र मृगद्वन्द्वत्वेऽपि नैकवत्वम् । हंसचक्रवाकौ । अत्र शकुनिद्वन्द्वत्वेऽपि नैकवत्वम् । यूकालिक्षे, अत्र क्षुद्रजन्तुत्वेऽपि नैकवत्त्वम् । ब्रीहियवौ । अत्र धान्यद्वन्द्वत्वेऽपि नैकवत्त्वम् । कुशकाशौ । अत्र तृणद्वन्द्वत्वेऽपि नैकवत्त्वम् । ननु चार्थे द्वन्द्वे इतरेतरयोगसमाहारद्वन्द्वाभ्यामेव एकवत्त्वविकल्पस्य सिद्धत्वात् 'विभाषा वृक्ष' इति सूत्रं व्यर्थामित्याशङ्कय आह । विभाषेत्यादि विकल्पार्थमित्यन्तम् । वृक्षमृगतृणधान्य व्यञ्जनद्वन्द्वेषु प्लक्षन्यग्रोधं,रूरुपृषतं, कुशकाशं, व्रीहियवं, दधिघृतम्, इत्येतेषु ‘जातिरप्राणिनाम्