पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/९

पुटमेतत् सुपुष्टितम्
समासप्रकरणम् ]
५२३
बालमनोरमा

नञो नस्य लोपः स्यादुत्तरपदे । न ब्राह्मणोऽब्राह्मणः ।

७५८ । तस्मान्नुडचि । (६-३-७४)

लुप्तनकारान्नञ उत्तरपदस्याजादेर्दनुडागमः स्यात् । अनश्वः । अर्थाभावेऽव्ययीभावेन सहायं विकल्प्यते । “ रक्षोहागमलध्वसन्देहाः प्रयोजनम्' इति


नेति लुप्तषष्टीकं पदम् । तदाह । नञो नस्येति ॥ उत्तरपदे इति ॥ 'अलुगुत्तरपदे' इत्यतस्तदनुवृत्तेरिति भावः । नञोऽशिति सिद्धे लोपवचनम् अकब्राह्मण इति साकच्कार्थमित्याहुः । अत्रब्राह्मण इति ॥ अत्रारोऽपितत्वं नञर्थः । आरोपितत्वञ्च ब्राह्मणत्वद्वारा ब्राह्मणे अन्वेति । आरोपितब्राह्मणत्ववानिति बोधः । अर्थात् ब्राह्मणभिन्न इति पर्यवस्यति । केचित्तु नञ् भिन्नवाची, ब्राह्मणाद्भिन्न इत्यर्थ इत्याहुः । तदयुक्तम् । ब्राह्मणादिभिन्नः इत्यर्थे पूर्वपदार्थप्राधान्यापत्तेः । तथाच 'उत्तरपदार्थप्रधानस्तत्पुरुषः' इति भाष्योद्धोषो विरुध्येत । किञ्च, अते, अतस्मै, अतस्मादित्यादौ सर्वनामकार्यं शीभावस्मायादिकं न स्यात् । तच्छब्दार्थस्य नञ्नर्थे प्रति विशेषणत्वे अप्रधानत्वात् । ‘संज्ञोपसर्जनीभूतास्तु न सर्वादयः ' इत्युक्त्तेः । तथा अस इत्यादौ “तदेस्सस्सावनन्त्ययोः' इति सर्वाद्यन्तर्गतत्यदादिकार्ये सत्वञ्च न स्यात् । अनेकामित्यत्र एकवचनानुपपत्तिश्च । एकभिन्नस्य एकत्वासम्भवेन द्वित्वबहुत्वनियमेन च द्विबहुवचनापत्तेः । तथा सति 'अनेकमन्यपदार्थे' इति नोपपद्येत । 'एतत्तदोस्सुलोपः इत्यत्र अनञ्समासग्रहणञ्चात्र लिङ्गम् । तद्धि असश्शिवः, अनेषश्शिवः, इत्यादौ सुलोपाभावार्थम् । तद्भिन्नः, एतद्भिन्नः, इत्यर्थे तु तच्छब्दाद्यर्थस्य उपसर्जनतया त्यदाद्यत्वानापत्तौ ‘हल्ड्यादिलोपस्य दुर्वारत्वात्तद्वैयर्थ्यं स्पष्टमेव । तस्मादुत्तरपदार्थप्राधान्यं भाष्योक्तमनुसृत्य आरोपितत्वमेव नञर्थ इति युक्तम् । विस्तरस्तु प्रौढमनोरमायां शब्दरत्ने मञ्जूषायाञ्च ज्ञेयः । प्राचीनास्तु “तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता । अप्राशस्त्यं विरोधश्च नञर्थाष्षट् प्रकीर्तिताः’ इति पठित्वा अब्राह्मणः, अपापम्, अनश्वः, अनुदरा कन्या, अपशवो वा अन्ये गोअश्वेभ्यः, अधर्म: इत्युदाजह्रुः । तत्र सादृश्यादिकं प्रकरणादिगम्यमित्याहुः । तस्मान्नुडचि ॥ तच्छब्देन पूर्वसूत्रावगतो लुप्तनकारो नञ् परामृश्यते । उत्तरपद इत्यनुवृत्तं अचीत्यनेन विशेशष्यते । तदादिविधिः । “उभयनिर्देशे पञ्चमीनिर्देशो बलीयान्' परत्वात्, इति परिभाषया सप्तमी षष्ठीं प्रकल्पयति । तदाह । लुप्तनकारादिति ॥ अनश्व इति ॥ समासे सति नञो नकारस्य लोपे तत्परिशिष्टाकारस्य नुट् । टकार इत् । उकार उच्चारणार्थः । टित्वादाद्यावयव इति भावः । नुक् तु न कृतः । डमुट्प्रसङ्गात् । ननु 'उत्तरे कर्मण्यविघ्नमस्तु’ इत्यादौ विघ्नानामभाव इत्यर्थे नञ्तत्पुरुषे सति परवल्लिङ्गत्वे अविघ्न इति स्यात् । नच अर्थाभावे अव्ययींभावेन तत्सिद्धिरिति वाच्यम् । अव्ययीभावस्य निर्मक्षिकमित्यादौ सावकाशतथा परत्वात्तत्पु रुषस्यैव प्रसङ्गादित्यत आह । अर्थाभावे इति ॥ रक्षेति ॥ पस्पशाह्निकभाष्ये इदं वाक्यम् । रक्षा च ऊहश्च आगमश्च लघु च असन्देहश्च इति द्वन्द्वः । 'परवल्लिङ्गम्' इति पुंस्त्वम् । अत्र सन्देहाभाव इत्यर्थे असन्देहशब्दस्य असन्देहा इति प्रयोगात् तत्पुरुषो