पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/९२

एतत् पृष्ठम् परिष्कृतम् अस्ति
६०६
[द्वन्द्व
सिद्धान्तकौमुदीसहिता

९२८ । उषासोषसः । (६-३-३१)

उषस्शब्दस्योषासादेशो देवताद्वन्द्वे । उषासासूर्यम् ।

९२९ ॥ मातरपितरावुदीचाम् । (६-३-३२)

मातरपितरौ । “उदीचाम्' किम् । मातापितरौ ।

९३० । द्वन्द्वाच्चुद्षहान्तात्समाहारे । (५-४-१०६)

चवर्गान्ताद्दषहान्ताच द्वन्द्वाट्टच्स्यात्समाहारे । वाक्च त्वक्च वाक्त्व चम् । त्वक्स्रजम् । शमीदृषदम् । वाक्त्विषम् । छत्रोपानहम् । “समाहारे किम् । प्रावृट्छरदैौ ।

इति द्वन्द्वसमासप्रकरणम् ।


छन्दसि दृष्टानुविधिरिति ॥ भाष्यवाक्यमेतत् । वेदे दृष्टानुसरणमित्यर्थः । यथा दृष्टं तथा । प्रक्रिया कल्पनीयेति भावः । पट्कारा इति ॥ “दिवस्पृथिव्योः” इत्यविग्रहे विसर्गं पठन्तीत्यर्थः । पदकारा इत्यनेन पदपाठस्याधुनिकत्वं सूचितम् । तथाच विसर्गपाठः प्रामादिक इति सूचितः । अकारोच्चारणेन रुत्वनिवृत्तेरुक्तत्वात् । उषासोषसः ॥ उषासासूर्यमिति ॥ उषाश्च सूर्यश्वति समाहारद्वन्द्वः । मातरपितरावुदीचाम् ॥ उदीचाम्मत मातरपितराविति भवतीत्यर्थः । अत्र मातृशव्दस्यारङादेशो निपात्यते । मातापितरराविति ॥ अरङभाव “आनडृतः' इत्यानङ् । द्वन्द्वाच्चुदष ॥ समासान्ताधिकारस्थं तद्धिताधिकारस्थं चेदं सूत्रम् । टच्स्यादिति । “राजाहस्सखिभ्यः' इत्यतस्तदनुवृत्तरिति भावः । वाक्त्वचमिति ॥ वाक्च त्वक्च इति समाहारद्वन्द्वः । कुत्वस्यासिद्धत्वाचवर्गान्तत्वाट्टच् । एव त्वक्स्रजमित्यत्रापि । त्वक्च स्रक्चेति विग्रहः । शमीदृषदमिति ॥ शमी च दृषच्चेति विग्रहः । दकारान्तत्वाट्टच् । वाक्त्विषमिति ॥ वाक्च त्विट् चेति विग्रहः । षान्तत्वाट्टच् । जश्त्वस्यासिद्धत्वादिति भावः । छत्रोपानहमिति ॥ छत्रञ्च उपानच्चेति विग्रहः । हान्तत्वाट्टच् । प्रावृट्छरदाविति ॥ प्रावृट् च शरच्चेति विग्रहः । इतरेतरयोगद्वन्द्वत्वान्न टजिति भावः ॥ इति श्रीमद्वासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमायां द्वन्द्वसमासप्रकरणं समाप्तम् ।