पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/९५

एतत् पृष्ठम् परिष्कृतम् अस्ति
समासप्रकरणम्]
६०९
बालमनोरमा

९३३ । पुमान् स्त्रिया । (१-२-६७)

स्त्रिया सहोक्तौ पुमाञ्छिष्यते, तल्लक्षण एव विशेषश्चेत्। हंसी च हंसश्च हंसौ ।

९३४ । भ्रातृपुत्रौ स्वसृदुहितृभ्याम् । (१-२-६८)

भ्राता च स्वसा च भ्रातरौ । पुत्रश्च दुहिता च पुत्रौ ।

९३५ । नपुंसकमनपुंसकेनैकवचास्यान्यतरस्याम् । (१-२-६९)

अक्लीबेन सहोक्त्तौ क्लीबं शिष्यते, तञ्च वा एकवत्स्यात्तल्लक्षण एव विशेषश्चेत् । शुक्लः पटः । शुक्ला शाटी । शुक्लं वस्त्रम् । तदिदं शुक्लम् । । तानीमानि शुक्लानि ।


तस्य पुंवत्वे सति डीषेो निवृत्तौ दाक्षिशब्दात् प्रथमाद्विवचने दाक्षी इति भवति । अत्र तल्लक्षणश्चदेव विशेष इत्यप्यनुवर्तते । ततश्च भागवित्तिकश्च गार्गी च वात्स्यायनश्च्त्यत्र न भवति । पुमान्स्रिया ॥ तल्लक्षण एवेति ॥ *वृद्धो यूना' इत्यतस्तदनुवृत्तरिति भावः । हंसी चेति । अत्र पुंस्त्वस्रीत्वमात्रकृतवैरूप्यात् पुलिङ्गो हंसशब्दश्शिष्यते । स्त्रीपुंस्त्वकृत वैरूप्यादेव ‘सरूपाणाम्’ इत्यस्याप्राप्तिः । मातृमातरावित्यत्र जननीवाचकपरिच्छेत्तृवाचकमातृशब्द योस्तु नायमेकशेषः । एकविभक्तौ सरूपाणामित्यनुवृत्य एकविभक्तौ स्त्रीपुंवत्त्वेतरकृतवैरूप्यः विरहश्चदित्याश्रयणात् । इह च मातृमातरावित्यत्र * अप्तृन्' इति दीर्घतदभावाभ्यामपि वैरूप्यात् । अत एव हंसश्च वरटा चेत्यत्रापि नेत्यलम् । भ्रातृपुत्रौ ॥ स्वसृदुहितृभ्यां सहोक्तौ क्रमात् भ्रातृपुत्रौ शिष्येते । स्वरूपतोऽपि वैरूप्यादप्राप्तौ वचनम् । नपुंसकम् ॥ अन्यतरस्याङ्गहणम् एकवदित्यनेनैवान्वेति, आनन्तर्यात्, नत्वकशेषेणत्यत आह । तच्चेति ॥ तल्लक्षण एवेतेि ॥ नपुंसकत्वानपुंसकत्वमात्रकृतवैरूप्य चेदित्यर्थः । शुक्लः पटः, शुक्ला शाटी, शुक्लं वस्रमिति ॥ पटशब्दसमभिव्याहारात् शुक्लशब्दः पुल्लिङ्गः । शाटीशब्दसम भिव्याहारात् स्त्रीलिङ्गः । वस्रशब्दसमभिव्याहारे तु नपुंसकलिङ्गः । “गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति' इत्यमरोत्तेरिति भावः । , सा च, इदं च, तत् । अयं च, इयं तन्च च, इदं च, इदम् । शुक्लश्च, शुक्ला च, शुक्लं च शुक्लम् । अत्र नपुंसकान्येव शिष्यन्ते. एकवच भवन्ति । तानीमानि शुक्लानीति ॥ नपुंसकत्वे एकशेषे सति एकवत्वाभावे रूपाणि । न चेतरेतरयोगविवक्षायां द्विवहुवचनान्तयोः समाहारद्वन्द्वविवक्षायामेकवचनस्य च सिद्धत्वात् एकवदिति व्यर्थमिति वाच्यम् । अत एवैकशेषप्रकरणस्य समाहारेऽप्रवृत्तिज्ञापनात् । तेन ओड्नश्च ओदनञ्च तयोस्समाहारे ओदनमिति न भवति । ओदनशब्दो ह्यर्धर्चादिः । ओदनश्च ओदनश्चेति इतरेतरयोगद्वन्द्वेऽपि ओदनमिति अनभिधानात् । एवञ्च क्वचिदनभिधानस्याव श्याश्रयणीयतया द्वन्द्वमात्रस्यैकशेषविषयेऽनभिधानमाश्रित्य एकस्य शब्दस्यानेकार्थ चाश्रित्य 7