पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/९६

एतत् पृष्ठम् परिष्कृतम् अस्ति
६१०
[एकशेष
सिद्धान्तकौमुदीसहिता

९३६ । पिता मात्रा । (१-२-७०)

मात्रा सहोक्तौ पिता वा शिष्यते । माता च पिता च पितरौ-माता पितरौ वा

९३७ । श्वशुरः श्वश्र्वा । (१-२-७१)

श्वश्र्वा सहोक्तौ श्वशुरो वा शिष्यते, तल्लक्षण एव विशेषश्चेत् । श्वश्रूश्च श्वशुरश्च श्वशुरौ-श्वश्रूश्वशुरौ वा ।

९३८ । त्यदादीनि सर्वैर्नित्यम् (१-२-७२)

सर्वैः सहोक्तौ त्यदादीनि नित्यं शिष्यन्ते । स च देवदत्तश्च तौ । त्यदादीनां मिथः सहोक्तौ यत्परं तच्छिष्यते' (वा ८०१) । स च यश्च यौ । सा च या च ये *पूर्वशेषोऽपि दृश्यते' इति भाष्यम् । स च यश्च तौ । त्यदादितः शेषे पुन्नपुंसकतो लिङ्गवचनानि' (वा ७९९) । सा च देवदत्तश्च तौ । तच्च देवदत्तश्च यज्ञदत्ता च तानि । पुन्नपुंसकयोस्तु परत्वान्नपुंसकं शिष्यते ।


एकशेषप्रकरणं भाष्ये प्रत्याख्यातम् । पिता मात्रा ॥ “पुमान् स्त्रिया' इत्यत्र सरूपाणा मित्यनुवृत्तेरप्राप्ताविदं वचनं विकल्पार्थे च । मातापितराविति ॥ “पितुर्दशगुणं माता गौरवेणातिरिच्यते ?” इति स्मृत्या मातुरभ्यर्हितत्वात्पूर्वनिपातः । 'आनङृतः' इत्यानङ् । श्वशुरश्वश्र्वा ॥ श्वश्रूश्वशुराविति ॥ श्वश्र्वा अपि मातृतुल्यत्वोत्तेरभ्यर्हितत्वम् । श्वश्रूः पूर्वजपत्त्री च मातृतुल्या प्रकीर्तिता” इति स्मृतेः । इह तल्लक्षणग्रहणानुवृतिस्पष्टार्था ।

  • श्वशुरः श्वश्र्वा' इति शब्दग्रहणात् । त्यदादीनि ॥ सर्वेरिति । यदादिभिरितरैश्चेत्यर्थः ।

ताविति । अत्र देवदत्तशब्दो निवर्तते । तच्छब्दस्तु शिष्यते । तद्देवदत्ताविति न भवति । सर्वैः किम् ? प्रत्यासत्या त्यदादिरेव सहोक्तावित्यर्थो माभूदित्येतदर्थम् । त्यदादीनाम्मिथ इति ॥ भाष्ये स्थितमेतत् । यत् परमिति ॥ त्यदादिगणे यत् परं पठितं तच्छिष्यत इत्यर्थः। शब्दपरविप्रतिषेधाश्रयणादिति भावः । स च यश्च यौ, सा च या च ये इति । त्यदादिगणे यच्छब्दस्य तच्छब्दादूर्ध्र्वे पाठात् परत्वात् स एव शिष्यते इति भावः । पूर्वशेषोऽपीति ॥ परशब्दस्येष्टवाचित्वात् क्वचित्पूर्वेमपि शिष्यत इति भावः । अत्र ‘द्विपर्यन्तानाम्' इति न भवति । अहश्च भवांश्चावामिति भाष्योक्तेः । त्यदादित इति ॥ आद्यादित्वात् षष्ठयर्थे तसिः । त्यदादीनां स्त्रीशेषे सति सहविवक्षितेषु यः पुमान् यच नपुंसकं तद्वशेन लिङ्गप्रतिपादकानि भवन्तीत्यर्थ । कानीत्याकाङ्क्षायामर्थात्यदादीन्येव सम्बध्द्यन्ते । सा च देवदत्तश्च ता विति ॥ अत्र तच्छब्दश्शिष्यते । समभिव्याहृतदेवदत्तशब्दलिङ्गश्च । देवदत्तशब्दस्तु निवर्तत एव । पुन्नपुंसकयोरिति ॥ तथोक्ताविति शेषः । परत्वादिति ॥ पुन्नपुंसकतो लिङ्ग