पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/९७

एतत् पृष्ठम् परिष्कृतम् अस्ति
समासप्रकरणम्]
६११
बालमनोरमा

तच्च देवदत्तश्च ते । । अद्वन्द्वतत्पुरुषविशेषणानामिति वक्तव्यम्' (वा ८००) । कुक्कुटमयूर्याविमे । (मयुरीकुक्कुटाविमौ) । तच सा च अर्धपिप्पल्यौ ते ।

९३९ । ग्राम्यपशुसङ्घेष्वतरुणेषु स्त्री । (१-२-७३)

एषु सहविवक्षायां स्री शिष्यते । “पुमान् स्त्रिया' (सू९३३) इत्यस्या पवादः । गाव इमाः । *ग्राम्य-' इति किम् । रुरव इमे । 'पशु' ग्रहणं


वचनानीत्यत्र पुमपेक्षया नपुंसकस्य पाठतः परत्वावगमादित्यर्थः । अद्वन्द्वेति ॥ द्वन्द्वतत्पुरुष विशेषणानां त्यदादीनां स्त्रीशेषे ‘यदादितश्शेषे पुन्नपुंसकता लिङ्गवचनानि' इत्येतन्न भवतीत्यर्थः । द्वन्द्वे उदाहरात । कुक्कुटमयूर्याविमे इति । अयश्च इयश्च इमे इत्यत्र ‘त्यदादितश्शेषे ' इति पुल्लिङ्गत्वं न भवति, किन्तु विशेष्यनिघ्नतैव । यद्यपि द्वन्द्वे उभयपदार्थप्रधानत्वात् उभय मपि विशेष्यम् । तथापि *परवल्लिङ्गम्' इति परपदलिङ्गत्वात्तदधीनतैव विशेषणस्येति बोध्द्धम् । न च अयञ्च इयञ्च इत्यत्र स्त्रीशेष एव न भवति । “पुमान् स्त्रिया' इत्युक्तत्वात् । अतः पुन्नपुंस कतः लिङ्गविधेः प्रसक्तिः कथमिति वाच्यम् । 'परवलिङ्गम्' इति हि द्वन्द्वतत्पुरुषार्थयोः परव ल्लिङ्गविधिः । अतः द्वन्द्वविशेषणस्य तत्पुरुषविशेषणस्य चानुप्रयोगे यल्लिङ्गं तदेव लिङ्गमिति भाष्यकैयटयोस्थितम्। ततश्च ‘कुक्कुटमयूर्याविमे’ इति उदाहरणे अयमियञ्च इति विग्रहे ‘पुमान् स्त्रिया' इति पुंशेषेऽपि 'परवल्लिङ्गम्' इति विशेषणत्वात् स्त्रीलिङ्गत्वे सति तस्य ‘त्यदादितः’ इति पुंवत्त्वं प्राप्तमनेन निषिध्द्यत इति नानुपपत्तिः । क्वचिन्मूलपुस्तकेषु तु मयूरीकुक्कुटाविमावित्यपि दृश्यते । ततु प्रकृतानुपयुक्तम् । अत्र मयूरीकुक्कुटाविति द्वन्द्वार्थस्य पुल्लिङ्गतया इयञ्चायञ्च इमाविति तद्विशेषणस्यानुप्रयुज्यमानस्यापि “पुमान् स्त्रिया' इति परिशिष्टस्य पुलिङ्गस्य इदम् शब्दस्य स्त्रीत्वाप्रसक्त्या तत्र “त्यदादितश्शेषे' इति पुंस्त्वविधेरप्रवृत्तत्वेन “ अद्वन्द्वतत्पुरुषविशे षणानाम्' इति निषेधस्यानुपयोगात् । तत्पुरुषे उदाहरति । तच्चेति । पिप्पल्या अर्धम् अर्ध पिप्पली। ‘अर्धे नपुंसकम्’ इति तत्पुरुषः । अर्धपिप्पली च पिप्पल्यर्धञ्च अर्धपिप्पल्यौ । तच्च सा च ते । तत्र पिप्पल्यर्धशब्दविशेष्याभिप्रायं तदिति नपुंसकत्वम् । सति स्त्रीत्वन्तु अर्धपिप्पलीति विशेष्याभिप्रायम् । अत्र “पुमान् स्त्रिया' इत्यस्य नैव प्रसाक्तिः । किन्तु 'नपुंसकमनपुंसकेनैक वत्' इति नपुंसकं शिष्टम् । तस्य स्त्रीलिङ्गतया विशेषणात् 'परवल्लिङ्गम्' इति स्त्रीत्वम् । तस्य “त्यदादितश्शेषे' इति नपुंसकत्वं प्राप्तं निषिद्वद्यते । एवञ्च ते इति त्रीलिङ्गमेव सिद्धद्यति । यद्यपि स्त्रीत्वे नपुंसकत्वे वा ते इति द्विवचनस्य न कोऽपि विशेषः । तथाप्यर्धपिप्पल्यस्ताः इत्युदा हार्यम् । तच्च सा चेति विग्रहः । ग्राम्यपशु ॥ एष्विति ॥ तरुणभिन्नेषु ग्राम्याणां पशूनां सङ्घेष्वित्यर्थः । इह अनपुंसकेनेत्यनुवर्तनादाह । पुमान् स्त्रियेत्यस्यापवाद इति ॥ गौश्च गौश्च गौश्च इति पुलिङ्गस्रीलिङ्गेषु गोशब्देषु सहविवक्षितेषु “पुमान् स्त्रिया' इत्येतद्वाधित्वा स्री शिष्यत इति भावः । ननु स्रीशेषे पुंशेषे वा न कोऽपि रूपभेद इत्यत आह । इमा इति ॥ अनुप्रयोगे रूपभेदः फलमिति भावः । “त्यदादितश्शेषे' इति न भवति । “गाव इमाः' इति भाष्यप्रयोगादित्याहुः । रुरव इमे इति ॥ रुरुः कृष्णाख्यो मृगः । अग्राम्यपशुत्वान्न स्त्री