पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/९८

एतत् पृष्ठम् परिष्कृतम् अस्ति
६१२
[
सिद्धान्तकौमुदीसहिता

किम् । ब्राह्मणा इमे । सङ्घेषु' किम् । एतौ गावौ । “अतरुणेषु' किम् । वत्सा इमे । “ अनेकशफेष्विति वाच्यम्' (वा ८०५) । अश्वा इमे । इह सर्वत्रैकशेषे कृतेऽनेकसुबन्ताभावाद्वन्द्वो न । तेन “शिरसी' 'शिरांसि' इत्यादौ समासस्येत्यन्तोदात्तः प्राण्यङ्गत्वादेकवद्भावश्च न । ‘पन्थानौ' “पन्थानः इत्यादैौ समासान्तो न ।

इत्येकशेषप्रकरणम् ।


शिष्यते । किन्तु “पुमान् स्त्रिया' इत्येकशेषः । ततश्चानुप्रयोगे इमे इति पुल्लिङ्गत्वमेव । ब्राह्मणा इमे इति ॥ ब्राह्मणी च ब्राह्मणाश्चेति विग्रहः । अपशुत्वान्न स्त्री शिष्यते । किन्तु पुमान् स्त्रिया' इत्येकशेषः । अन्यथा ब्राह्मण्यः इमा इति स्यात् । एतौ गावाविति ॥ स्रीलिङ्गपुछिङ्गयोस्सहोत्क्तौ असङ्घत्वान्न स्त्री शिष्यते । सङ्कघशब्दोऽपि बहूनां समुदाये वर्तते । अन्यथा एकशेषस्यानेकविषयत्वादेवानेकपरिग्रहे सिद्ध किं तेनेति भावः । स्त्रीशेषे तु एते इति अनुप्रयोगे रूपं स्यात् । वत्सा इमे इति ॥ वत्साश्च वत्साश्च इति विग्रहः । तरुणत्वान्न स्री शिष्यते । अन्यथा वत्सा इमा इत्यनुप्रयोगस्यात् । अनेकशफेष्विति वाच्यमिति ॥ वार्तिकम् । एकशफा अश्वादयः, तेषां सहोक्तौ ग्राम्यपश्चिति न भवति । अश्वा इमे इति ॥ एकशफत्वान्न स्त्री शिष्यते । ततश्चानुप्रयोगे पुलिङ्गत्वमिति भावः । ननु “सरूपाणाम् इति सूत्रे “ तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे ' इत्यतः द्वन्द्वग्रहणानुवृत्त्या द्वन्द्वे एकशेष इति भाष्यात् कृते द्वन्द्वे एकशेषस्यादित्यत आह । इहेति ॥ इहोदाहृतेषु एकशषविषयेषु सर्वत्र प्रसक्तद्वन्द्वमनवकाशत्वादेकशेषो बाधते । कृतेत्वेकशेषेऽनेकाभावात् द्वन्द्वेो नेत्यर्थः । द्वन्द्वसमासे एकशेष इति भाष्यस्य द्वन्द्वे प्रसक्त्ते सहविवक्षायामेकशेष इति व्याख्येयम् । ननु कृत एव द्वन्द्वे एकशेषो भवतु, का हानिरित्यत आह । तेनेति ॥ द्वन्द्वात् प्रागेवैकशेषा श्रयणेनेत्यर्थः । कृते द्वन्द्वे एकशेषाभ्युपगमे शिरसी इति द्विवचने शिरांसीति बहुवचने च समासस्येत्यन्तोदात्तस्स्यात् । प्राण्यङ्गत्वात् 'द्वन्द्वश्च पाणि' इत्यादिना एकवद्रावश्च स्यादित्यर्थः । आदिना शिरोभ्यां शिरोभिरित्यादिसङ्ग्रहः । पन्थानाविति ॥ द्वन्द्वे कृते एकशेषाभ्युपगमे पन्थानौ-पन्थानः। पथिभ्याम्-पथिभिः, इत्यादौ ‘ऋक्पूः' इत्यप्रत्ययस्समासान्तस्यादिति भावः । नच.त्र’ “इतोऽत्सर्वनाम’ इति सर्वनामस्थाने परेऽकारविधानाल्लिङ्गात् समासान्तस्सुपरिहरः । “इतोऽत्' इत्युक्तेऽपि सावित्यनुवृत्य पन्था इति सिद्धरिति वाच्यम् । 'पथो विभाषा' इति समासान्ताभावे अपन्थानावित्यादौ ।। 'इतोऽत्' इति सूत्रस्य सावकाशत्वात् ॥ इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनारमायाम् एकशेषप्रकरणं समाप्तम् ।