पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/९९

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीरस्तु ।

कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपाः पञ्च वृत्तयः । “परार्थाभिधानं वृत्तिः' । *वृत्त्यर्थावबोधकं वाक्यं विग्रहः' स द्विधा । लौकिकोऽलौकिकश्च । परिनिष्टितत्वात्साधुलैौकिकः । प्रयोगानर्होऽसाधुरलौकिकः । यथा राज्ञ- पुरुषः । राजन् अस् पुरुष सु इति । अविग्रहो नित्यसमासः, अस्वपदविग्रहो वा ।


अथ प्रसङ्गात् सर्वसमासोपयुक्तं प्रकीर्णकं प्रकरणमारभते-कृत्तद्धितेति ॥ कृदन्ताः तद्विताः समासाः एकशेषाः सनादिप्रत्ययान्तधातवश्चेति वृत्तयः पञ्चविधा इत्यर्थः । वृत्तिसामान्यलक्षणमाह । परार्थाभिधानं वृत्तिरिति ॥ 'समर्थः पदविधिः' इति सूत्रे भाष्ये स्थितमेतत् । अभिधानमिति करणे ल्युट् । सामान्ये नपुंसकम् । विग्रहवाक्यावयव पदार्थेभ्यः परः अन्यः योऽयं विशिष्टैकार्थः तत्प्रतिपादिका वृत्तिरित्यर्थः । प्रक्रियादशायां प्रत्येक मर्थवत्त्वेन प्रथमविगृहीतानां पदानां समुदायशक्तया विशिष्टैकार्थप्रतिपादिका वृत्तिरिति यावत् । समुदायशक्तिश्च “समर्थः पदविधिः’ इति परिभाषया लभ्या । तत्र समासतद्धितयोः पद विधित्वं स्पष्टमेव । “सुप्सुपा' इत्यनुवर्त्य समासविधानात् । सुबन्तात्तद्धितोत्पत्तेः वक्ष्यमाण त्वात् । कृतामपि केषां चित् “कर्मण्यण्’ इति उपपदनिमित्तकानां पदविधित्वमस्त्येव ।

  • सुप आत्मनः क्यच्’ इत्यादीनामपि पदविधित्वमस्येव । एकशेषविधावपि द्वन्द्वे इत्यनुवृत्तेः

द्वन्द्वविषये तद्विधानात् 'एकार्थीभावोऽप्यस्त्येव' इति मञ्जूषादौ विस्तरः । वृत्त्यर्थावबोधक मिति । “यद्यपि वृत्तावेव समुदायशक्तया विशिष्टैकार्थप्रतिपादकता, नतु वाक्ये” इति समर्थ सूत्रे भाष्ये प्रपश्चितम् । तथापि समासवृत्तियोग्यविभक्तयन्तपदानां पृथक्प्रयुज्यमानानां समूहो विग्रहवाक्यमिति बोध्यम् । परिनिष्ठितत्वादिति । व्याकरणसंस्कृतत्वादित्यर्थः । प्रयोगानर्ह इति ॥ व्याकरणसंस्कृतत्वाभावादित्यर्थः । यथेत्युदाहरणप्रदर्शने । राज्ञः पुरुष इति ॥ लौकिकविग्रहवाक्यमिति शेषः । राजन् अस् पुरुष सु इत्यलौकिक विग्रहवाक्यमिति शेषः । अविग्रहो नित्यसमास इति ॥ अलौकिकविग्रहवाक्यरहित इत्यर्थः ।समासस्य नित्यत्वादिति भावः । अस्वपदेति । समस्यमानपदसमानार्थकपदा

न्तरकृतविग्रहो वा नित्यसमास इत्यर्थः । संज्ञाविषयसमासे तु वाक्येन संज्ञानवगमेऽपि वृत्तिघटकपदज्ञानाय समस्यमानपदार्थबोधकवाक्यप्रयोगो भवत्येव । तत्र समासनित्यवादस्तु