पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१०२

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
७५५
बालमनोरमा ।

१३८० । द्वीपादनुसमुद्रं यञ् । (४-३-१०)

समुद्रस्य या समीपे द्वीपस्तद्विषयाद्वीपशब्दाद्यञ्स्यात् । द्वैप्यम्-द्वैप्या ।

१३८१ । कालाट्ठञ् । (४-३-११)

कालवाचिभ्यष्ठञ् स्यात् । मासिकम् । सांवत्सरिकम् । सायम्प्रातिकः । पौनःपुनिक । कथं तर्हि 'शार्वेरस्य तमसो निषिद्धये' इति कालिदास । अनुदितौषसरागा' इति भारविः । समानकालीनं, प्राकालीनमित्यादि च । अपभ्रंशा एवैते' इति प्रामाणिकाः । “तत्र जात:' (सू १३९३) इति यावत्कालाधिकारः |

१३८२ । श्राद्धे शरदः । (४-३-१२)

ठञ् स्यात् । ऋत्वणोऽपवादः । शारदिकं श्राद्धम् ।

१३८३ । विभाषा रोगातपयोः । (४-३-१३)

शारदिकः-शारदो वा रोगः आतपो वा। ‘एतयो: किम् । शारदं दधि ।

१३८४ । निशाप्रदोषाभ्यां च । (४-३-१४)

वा ठञ्स्यात् । नैशिकम्-नैशम् । प्रादोषिकम्-प्रादोषम् ।


द्वीपादनु ॥ अनुसमुद्रमिति सामीप्ये अव्ययीभावः । अनुसमुद्रामिति सप्तम्यन्तम्, विद्यमानादि त्यध्याहार्यम् । तदाह । समुद्रस्य समीपे इति । द्वैप्येति ॥ 'यञश्च' इति डीप् तु न । अनपत्याधिकारस्थात् नेति तन्निषेधात् । कालाट्ठञ् ॥ “कालशब्दस्यैव न ग्रहणम् । किन्तु कालशब्दस्य कालविशेषवाचकानाञ्च ग्रहणम्” इति “तदस्य परिमाणम्, सङ्कयायाः' इति सूत्र भाष्ये स्पष्टम् । तदाह । कालवाचिभ्य इति ॥ सायम्प्रातिकः, पौनःपुनिक इति । ‘अव्ययानाम्भमात्रे' इति टिलोपः । ‘सायञ्चिरम्’ इति टयुट्युलौ तु न भवतः । 'नस्तद्धिते' इति सूत्रभाष्ये तथाप्रयोगदर्शनात् । शार्वरस्येति ॥ शार्वरिकस्येति भाव्यमिति भावः । अनु दितौषसेति ॥ औषसिकेति भाव्यमिति भावः । समानेति ॥ समानकालिकं प्राक्कालिकमिति भाव्यमित्यर्थः । प्रामाणिकाः इति ॥ केचित्तु अमुकः पुरतः परेद्युरित्यादिवत् एतेऽपि शब्दाः अव्युत्पन्नाः, पृषोदरादयो वा साधवः इत्याहुः । इति यावादित ॥ व्याख्यानादिति भावः । श्राद्धे शरदः ॥ ठञ् स्यादिति । शेषपूरणमिदम् । ननु ‘कालाट्ठञ्’ इत्येव सिद्धे किमर्थ मिदमित्यत आह । ऋत्वण इति || सन्धिवेलादृयुतुनक्षत्रेभ्योऽण्’ इति वक्ष्यमाणस्येत्यर्थः | शारदिकमिति ॥ शरदि ऋतौ भवमित्यर्थः । शरच्छब्दस्य संवत्सरवाचित्वे तु पूर्वेणैव सिद्धम् । विभाषा रोगातपयोः ॥ ठञिति शरद इति चानुवर्तते । शारदै दधीति ॥ ऋत्वणिति भावः । निशाप्रदोषाभ्याञ्च ॥ वा ठञ् स्यादिति । शेषपूरणम्। ‘कालाट्ठञ्’ इति नित्यं