पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१०४

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
७५७
बालमनोरमा ।

१३९ । सर्वत्राण्च तलोपश्च । (४-३-२२)

हेमन्ताद्ण्स्यात्तलोपश्च वेदलोकयोः, चकारात्पक्षे ऋत्वण् । हैमनम् हैमन्तम्

१३९१ । सायञ्चिरम्प्राण्हेप्रगेऽव्ययेभ्यष्टयुट्युलौ तुट् च । (४-३-२३)

सायमित्यादिभ्यश्चतुर्योऽव्ययेभ्यश्च कालवाचिभ्यष्टयुटयुलौ स्तः तयो- स्तुट् च । तुट: प्रागनादेश: ‘अनद्यतने-' (सू २१८५) इत्यादिनिर्देशात् । सायन्तनम् । चिरन्तनम् । प्राह्णप्रगयोरेदन्तत्वं निपात्यते । प्राह्णेतनम् । प्रगेतनम् । दोषातनम् । दिवातनम् । 'चिरपरुत्परारिभ्यः त्नो वक्तव्यः'


साध्वधिकारस्य शेषाधिकारबहिर्भूतत्वात्कथं साध्वर्थेऽयम्प्रत्यय इत्यत आह । कालादिति ॥ साध्वर्थे इति ॥ साध्वर्थेऽपि ठगित्यर्थः । अस्य जाताद्यर्थेषु शैषिकेष्वन्तर्भावादिति भावः । सर्वत्राण्च ॥ छन्दसीत्यनुवृत्तिनिवृत्त्यर्थं सर्वत्रग्रहणम् । लोके वेदेचेत्यर्थः । 'हेमन्ताच' इति पूर्वसूत्रात् हेमन्तादित्यनुवर्तते। तदाह। हेमन्तादित्यादिना॥ ननु ‘सर्वत्राण्लोपश्च' इत्येव सिद्धे प्रथमचकारो व्यर्थ इत्यत आह । चकारादिति ॥ हैमनमिति ॥ हेमन्तेत्यत्र तकारात्प्राक् नकारस्यानुस्वारपरसवर्णौ स्थितौ । तत्र तकाराकारसमुदायस्य लोप इति पक्षे अनिति प्रकृति- भावान्न टिलोपः । तकारस्यैव लोप इति पक्षे तु, अकारस्य 'यस्येति च' इति लोपे तस्य आभीयत्वेनासिद्धत्वात् स्थानिवत्त्वाद्वा न टिलोपः । हैमन्तमिति ॥ ऋत्वणि रूपम् । अत्र न तलोपः । तस्य एतत्सूत्रप्रतिपदोक्ताणा सनियोगशिष्टत्वादिति भावः । सायञ्चिरम् ॥ चतुर्भ्य इति ॥ सायं चिर प्राह्णे प्रगे इत्येभ्य इत्यर्थः । कालवाचिभ्य इति ॥ 'काला- ट्ठञ्' इत्यतस्तदनुवृत्तरिति भावः। तयोरिति ॥ टयुटयलोरित्यर्थः । ननु सायन्तनमित्यादौ कथ योरनादेशः । 'युवोरनाकौ' इति ह्यङ्गाधिकारस्थम् । अङ्गात्परयोः यु वु इत्येतयोरनाकौ विधीयते । प्रकृते च अन्तरङ्गत्वात्तुटि यु इत्यस्य अङ्गात्परत्वाभावादनादेशो न सम्भवति । नच 'तदागमास्तद्रहणेन गृह्यन्ते' इति न्यायेन ट्यु इत्यस्यापि युग्रहणेन ग्रहणात्तस्याङ्गात् परत्वं निर्बाधामिति वाच्यम्। 'निर्दिश्यमानस्यादेशा भवन्ति' इति परिभाषया योरेवानादेशप्राप्तेः तस्य च तुटा व्यवहितत्वादशात्परत्वाभावात् कथमनादेश इत्यत आह । तुटः प्रागनादेश इति ॥ कुत इत्यत आह । अनद्यतने इत्यादिनिर्देशादिति ॥ आदिना 'घकालतनेषु' इत्यत्र तनेति ग्राह्यम् । सायन्तनमिति ॥ 'षो अन्तकर्मणि' इति धातोर्घजि सायशब्दो दिवसाव- साने रूढः । तस्माट्ट्युटयुलौ, तयोरनादेशे तुट्, प्रकृतेर्मान्तत्वन्निपात्यते । यत्तु सायमिति स्वरादिपठितमव्ययं तस्याव्ययत्वादेव ट्युटयुलौ सिद्धौ । चिरन्तनमिति ॥ अत्रापि प्रकृतेर्मान्तत्वन्निपात्यते । अस्मादेव लिङ्गाच्चिरमित्यस्याव्ययेषु पाठः अप्रामाणिक इति गम्यते । प्राह्णेतनमिति ॥ प्राण्हः सोढोऽस्येति विग्रहः । तदस्य सोढम्' इत्यर्थस्य निर्देक्ष्यमाणत्वात् । प्राह्णे जातः इत्याद्यर्थे तु 'घकालतनेषु' इति लुकैव एदन्तत्वं सिद्धम् । प्रगेतनमिति ॥