पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१०७

एतत् पृष्ठम् परिष्कृतम् अस्ति
७६०
[शैषिक
सिद्धान्तकौमुदीसहिता

१३९९ । दिशोऽमद्राणाम् । (७-३-१३)

दिग्वाचकाज्जनपदवाचिनो वृद्धिः । पूर्वपाञ्चालकः । 'दिश:' किम् । पूर्वपञ्चालानामयं पौर्वपञ्चालः । “ अमद्राणाम्' किम् । पौर्वमद्रः । योगविभाग

१४०० । प्राचां ग्रामनगराणाम् । (७-३-१४)

दिशः परेषां ग्रामवाचिनां नगरवाचिनां चाङ्गानामवयवस्य च वृद्धिः । पूर्वेषुकामशम्यां भवः पूर्वैषुकामशमः । नगरे पूर्वपाटलिपुत्रकः ।

१४०१ । पूर्वाह्णापराह्णार्द्रामूलप्रदोषावस्कराद्वुन् । (४-३-२८)

पूर्वाह्णकः । अपराह्णकः । आद्रकः । मूलकः । प्रदोषकः । अवस्करक ।

१४०२ । पथः पन्थ च । (४-३-२९)

पथि जातः पन्थकः ।


एभ्यः परस्य जनपदवाचिनः उपरि प्रत्ययविधौ तदन्तविधिरित्यर्थकन ‘येन विधिः' इति सूत्र भाष्यपठितवचनेन तदन्ताविधिरित्यर्थः । दिशोऽमद्राणाम् ॥ अमद्राणामिति च्छेदः । दिग्वा चकादिति ॥ परस्येति शेषः । जनपदवाचिन इति ॥ मद्रवाचिभिन्नस्येत्यपि बोध्यम् । वृद्धिरिति ॥ आदेरिति शेष । पौर्वपञ्चाल इति । अत्र पूर्वशब्दः कालवाचीति भावः । पौर्वमद्रः इति ॥ 'मद्रेभ्योऽञ्' इत्यञ् । ननु 'सुसर्वार्धढिशो जनपदस्यामद्राणाम्' इत्येकसूत्र मेवास्त्वित्यत आह । योगविभाग उत्तरार्थ इति ॥ 'प्राचां ग्रामनगराणाम्’ इत्युत्तरसूत्रे दिश एव सम्बन्धो यथा स्यादित्येवमर्थमित्यर्थः । एकसूत्रत्वे तु सुसर्वादिभ्यः परस्यापि मद्र शब्दस्य पर्युदासः प्रसज्येतेति भावः । प्राचां ग्रामनगराणाम् ॥ दिश इति ॥ दिशः परे ये प्राच्यग्रामवाचिनः प्राच्यनगरवाचिनश्च तेषामवयवस्यादेवृद्धिः स्यादित्यर्थः । पूर्वेषुकाम शम्यामिति ॥ “दिक्सङ्खये संज्ञायाम्' इति समासः । अण् संज्ञात्वादिति ‘दिक्पूर्वपदात्' इति ञो न । समुदायस्य ग्रामनामत्वेऽपि उत्तरपदस्यापि तन्नामत्वमस्तीति उत्तरपदादिवृद्धिः । नगरेति उदाहरणसूचनम्। पूर्वपाटलिपुत्रक इति ॥ “पूर्वापरप्रथम' इति समासः । अवृद्धादपि इति वुञ् । यद्यपि पाटलीपुत्रशब्दे उत्तरपदे आदिवृद्धिरेव । तथापि पूर्वपदस्यापि वृद्धिनिवृत्ति फलम्। पूर्वाह्णापराह्ण ॥ पूर्वाह्णकः, अपराह्णकः इति ॥ पूर्वाह्णे अपराह्णे च जातः इत्यर्थः। 'विभाषा पूर्वाह्णापराह्णाभ्याम्' इत्यस्यापवादः । ट्युटयुलोः ठञश्च विकल्पस्तु जातादन्यार्थे सावकाश इति भावः । आर्द्रकः मूलक इति ॥ आर्दायां मूले च जात इत्यर्थः । ऋत्वणो ऽपवादः । प्रदोषक इति ॥ 'निशाप्रदोषाभ्याम्' इत्यस्यापवादः । अवस्करक इति ॥ औत्सर्गिकस्याणोऽपवादः । पथः पन्थ च ॥ पथिन्शब्दात् वुन् स्यात् प्रकृतेः पन्थादेशश्च ।