(वा २८५७) । चित्रायां जाता चित्रा । रेवती रोहिणी आभ्यां “लुक्तद्धितलुकि' (१४०८) इति लुकि कृते पिप्पल्यादेराकृतिगणत्वात्पुनर्ङीष् । ’फल्गुन्यषाढाभ्यां टानौ वक्तव्यौ' (वा २८५८) । स्त्रियामित्येव । फल्गुनी। अषाढा । ’श्रविष्ठाषाढाभ्यां छण्वक्तव्यः' (वा २८५९) । अस्त्रियामपि । श्राविष्ठीयः । आषाढीयः ।
१४०९ । जे प्रोष्ठपदानाम् । (७-३-१८)
प्रोष्ठपदानामुत्तरपदस्याचामादेरचो वृद्धिः स्याज्जातार्थे ञिति णिति केिति च । प्रोष्ठपदासु जातः प्रोष्ठपादो माणवकः । ’जे' इति किम् । प्रोष्ठपदासु भवः प्रौष्ठपदः । बहुवचननिर्देशात्पर्यायोऽपि गृह्यते । भद्रपादः ।
१४१० । स्थानान्तगोशालखरशालाच्च । (४-३-३५)
लुकि स्त्रीप्रत्ययनिवृत्तिः । इत्यादीति । अनूराधासु जातः अनूराधः । नक्षत्राणो लुकि स्त्रीप्रत्ययनिवृत्तिः । एवमग्रेऽपि । “ अनूराधान् हविषा वर्धयन्तः” इत्यादौ छान्दसम्पुंस्त्वम् । स्वात्याञ्जातः स्वातिः । तिष्ये जातः तिष्यः । पुनर्वस्वोर्जातः पुनर्वसुः । हस्ते जातो हस्तः । विशाखयोर्जातः विशाखः । अषाढासु जातः अषाढ: । बहुळासु जातः बहुळः । चित्रेति ॥ चित्रादिभ्यः परस्य स्त्रीरूपजातार्थकप्रत्ययस्य लुगित्यर्थः । रेवती रोहिणीति ॥ जातायां नक्षत्राणो लुकि सति प्रकृतेर्गौरादिस्त्रीप्रत्ययनिवृत्तौ जातार्थगतस्त्रीत्वे पुनर्डीष् । ननु रेवतीनक्षत्रे रोहिणीनक्षत्रे इति गौरादौ पाठादिह जातार्थवृत्तिभ्याङ्कथं डीषित्यत आह । आभ्यामिति ॥ रेवतीरोहणीशब्दाभ्यामित्यर्थः । परस्य स्त्रीत्वविशिष्टजातार्थप्रत्ययस्येति शेषः । आकृतिगणत्वादिति ॥ स्त्रीत्वविशिष्टजातार्थवृत्योरनयोः पिप्पल्यादौ निवेशे भाष्योदाहरणमेव । प्रमाणम् । स्त्रियामित्येवेति ॥ तथा भाष्यादिति भावः । फल्गुनी, अषाढा, इत्याभ्यां क्रमात्। टः अन् च स्त्रीत्वविशिष्टजातार्थे वक्तव्यावित्यर्थः । फल्गुनीति ॥ फल्गुन्योर्जातेत्यर्थः । नक्षत्राणोऽपवादः । टप्रत्ययः । ’यस्येति च' इति ईकारलोपः । जातार्थस्त्रीत्वे टित्त्वात् डीप् । अषाढेति ॥ अषाढासु जातेत्यर्थः । नक्षत्राणोऽपवादः । अन्, ’यस्येति चव' इत्यकारलोपः । जातार्थे स्त्रीत्वे टाप् । 'श्रविष्टाफल्गुनी' इत्यादिना ठानोर्लुक् तु न । विधानसामर्थ्र्यात् । छण् वक्तव्य इति । नक्षत्राणोऽपवादः । विधिसामर्थ्यादस्यापि न लुक् । आस्त्रियामपीति ॥ अत्र स्त्रियामिति न सम्बध्यते । भाष्ये तथोदाहरणादिति भावः । श्राविष्ठीय इति ॥ श्रविष्ठासु जात इत्यर्थः । छण्, ईयः, 'यस्येति च' इत्यकारलोपः । णित्वादादिवृद्धिः । आषाढीय इति ॥ अषाढासु जात इत्यर्थः । जे प्रोष्ठपदानाम् ॥ आदिवृद्धिप्रकरणे उत्तरपदस्येत्यधिकारे इदं सूत्रम् । तदाह । प्रोष्ठपदानामिति ॥ जशब्देन जातार्थप्रत्ययो विवक्षितः । तदाह । जातार्थे इति ॥ प्रोष्ठपदानामिति बहुवचनस्य प्रयोजनमाह । बहुवचनेति ॥ भद्रपाद इति ॥ भद्रपदासु जात इत्यर्थः । स्थानान्तगोशाल ॥ एभ्य इति ॥ स्थानान्त,