पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/११७

एतत् पृष्ठम् परिष्कृतम् अस्ति
७७०
[शैषिक
सिद्धान्तकौमुदीसहिता

आग्निष्टोमिकः । वाजपेयिकः । राजसूयिकः । पाकयज्ञिकः । नावयज्ञिकः । बहुवचनं स्वरूपविधिनिरासार्थम् । अनन्तोदात्तार्थ आरम्भः ।

१४४८ । अध्यायेष्वेवर्षेः । (४-३-६९)

ऋषिशंब्देभ्यो लक्षणया व्याख्येयग्रन्थवृत्तिभ्यो भवे व्याख्याने चाध्याये ठञ् स्यात् । वसिष्ठेन दृष्टो मन्त्रो वसिष्ठः, तस्य व्याख्यानस्तत्र भवो वा वासिष्ठिकोऽध्यायः । 'अध्यायेषु' किम् वासिष्ठी ऋक् ।

१४४९ । पौरोडाशपुरोडाशात्ष्ठन् । (४-३-७०)

पुरोडाशसहचरितो मन्त्रः पुरोडाशः । स एव पौरोडाशः । ततः ष्ठन् । पौरोडाशिकः । पुरोडाशिक ।

१४५० । छन्दसो यदणौ । (४-३-७१)

छन्दस्यः-छान्दसः ।

१४५१ । द्व्यजृद्ब्राह्मणर्क्प्रथमाध्वरपुरश्चरणनामाख्याताट्ठक् । (४-३-७२)


ठञित्यर्थः । पाकयज्ञिक इति ॥ औपासनाग्निसाध्याः पार्वणस्थालीपाकादयः पाकयज्ञाः, तेषां व्याख्यानो ग्रन्थः, तेषु भव इति वार्थः। नावयज्ञिक इति । नूतनद्रव्यकः आग्रयणाख्यः यज्ञः नवयज्ञः । ननु पूर्वसूत्रेण सिद्धे किमर्थमिदमित्यत आह । अनन्तोदात्तार्थ इति ॥ वाजपेयशब्दो मध्योदात्तः तैत्तिरीयादौ प्रसिद्धः । यद्यपि अग्निष्टोमशब्दः अन्तोदात्त एव तैत्तिरीये दृष्टः । नवयज्ञशब्दोऽपि षष्ठीसमासः, समासस्वरेणान्तोदात्त एव । तथापि अन्यार्थमिदमन्तोदात्तेष्वपि परत्वात् प्रवर्तते इति न दोषः । अध्यायेष्वेवर्षेः ॥ वसिष्ठेन दृष्टो मन्त्रो वसिष्ठ इति ॥ लक्षणयेति भावः । वासिष्ठिकोऽध्याय इति ॥ कश्चित् ग्रन्थविशेषोऽयम् । वासिष्ठी ऋगिति ॥ ऋचः अध्यायसमाख्याभावात् न ठञिति भावः । पौरोडाश ॥ उक्तविषये इति शेषः । पुरोडाशेति ॥ पुरोडाशशब्दसहितो मन्त्रः लक्षणया पुरोडाश इत्युच्यते इत्यर्थः । स एव पौरोडाशा इति । प्रज्ञादित्वात्स्वार्थेऽणिति भावः । पौरोडाशिक इति ॥ पौरोडाशात् ष्ठनि रूपम् । पुरोडाशिक इति ॥ पुरोडाशशब्दात् ष्ठनि रूपम्, षित्वात् ङीष् । पुरोडाशिकी-पौरोडाशिकी । छन्दसो यदणौ । तस्य व्याख्याने तत्र भवे चेति शेषः । छन्दस्यः-छान्दस इति ॥ छन्दसां व्याख्यानः तत्र भवो वेत्यर्थः ।द्व्यजूलक्षणस्य वक्ष्यमाणस्य ठकोऽपवादः । द्व्यजृद्ब्राह्मण ॥ द्व्यच्, ऋत, ब्राह्मण, ऋक्, प्रथम, अध्वर, पुरश्चरण, नामन्, आख्यात, एभ्यः ठक् स्यात् । तस्य