पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/११९

एतत् पृष्ठम् परिष्कृतम् अस्ति
७७२
[शैषिक
सिद्धान्तकौमुदीसहिता

१४५६ । विद्यायोनिसम्बन्धेभ्यो वुञ् । (४-३-७७)

औपाध्यायकः । पैतामहकः ।

१४५७ । ऋतष्ठञ् । (४-३-७८)

वुञोऽपवादः । हौतृकम् । भ्रातृकम्

१४५८ । पितुर्यच्च । (४-३-७९)

चाट्ठञ् । “रीङृतः' (सू १२३४) । 'यस्येति च' (सू ३११) इति लोपः | पित्र्यम्---पैतृकम् |

१४५९ । गोत्रादङ्कवत्। (४-३-८०)

बिदेभ्यः आगतं बैदम् । गार्गम् । दाक्षम् । औपगवकम् ।

१४६० । नञः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम् । (७-३-३०)

नञः परेषां शुच्यादिपञ्चानामादेरचो वृद्धिः, पूर्वपदस्य तु वा, ञिदादौ परे । आशौचम्-अशौचम् । आनैश्वर्यम्-अनैश्वर्यम्। आक्षैत्रज्ञम्-अक्षैत्रज्ञम् । आकौशलम्-अकौशलम् । आनैपुणम्-अनैपुणम् ।


स्यात् । विद्यायोनि ॥ तत आगत इत्येव । औपाध्यायकः । पैतामहक इति ॥ उपाध्यायात्पितामहाच्च आगत इत्यर्थः । ऋतष्ठञ् ॥ ॠदन्ताद्विद्यायोनिसम्बन्धवाचिन इत्यर्थः । तत आगत इत्येव । हौतृकम् ॥ भ्रातृकमिति ॥ उकः परत्वात् ठस्य कः । पितुर्यच्च ॥ यति प्रक्रियान्दर्शयति । रीङृत इति । गोत्रादङ्कवत् ॥ अङ्के ये प्रत्ययाः ते तत आगत इत्यर्थेऽपि भवन्तीत्यर्थः| बिदेभ्यः आगतमिति ॥ विग्रहप्रदर्शनम् । अत्र 'यञञोश्च' इति बहुत्वे अञो लुकि बिदेभ्य इति निर्देशः । बैदमिति ॥ 'सङ्घाङ्कलक्षणेष्वञ्याञिञामण्' इत्युक्तेरञन्तादिहाप्यर्थे अणि विवक्षिते 'गोत्रे लुगचि' इत्यञो लुड्निवृत्तौ बैदशब्दादण् । द्व्यजृद्द्राह्मण’ इति द्व्यज्लक्षणस्य ठकोऽपवादः । गार्गमिति ॥ यञन्तादण् । दाक्षमिति ॥ इञन्तादण्|औपगवकमिति|| उपगोरपत्यमौपगवः, तस्मादागतमित्यर्थ | 'गोत्रचरणा- द्रुञ्' इति वुञ् । यद्यपि तस्येदमित्यर्थे अयं वुञ् विहितः, तथाप्यञ्यञिञन्तादङ्केऽपि स दृष्ट इति तस्याप्यत्रार्थे अतिदेशो भवति । न हि ‘सङ्घाङ्क’ इति प्रतिपदोक्तस्याण एवात्रातिदेशः । किन्तु अङ्के दृष्टस्य सर्वस्यापि, व्याख्यानादिति भावः । नञः शुचीश्वर ॥ आदिवृद्धिप्रकरणे उत्तर पदस्य पूर्वस्य तु वेत्यनुवृत्ताविदं सूत्रम्। आशौचम्-अशौचम् इति ॥ अशुचेरागतमित्यर्थः । तत आगत इत्यणि पूर्वपदस्यादिवृद्धिविकल्पः । उत्तरपदस्य तु नित्या आदिवृद्धिः । एवमग्रेऽपि । आनैश्वर्यमित्यादि । अनीश्वरात् अक्षेत्रज्ञात् अकुशलात् अनिपुणाच्च आगतमित्यर्थः ।