पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१२२

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
७७५
बालमनोरमा ।

तुदी अभिजनोऽस्य तौदेयः । सालातुरीयः । वार्मतेयः । कौचवार्यः ।

१४७५ । भक्तिः । (४-३-९५)

'सोऽस्य' इत्यनुवर्तते । भज्यते सेव्यत इति भक्तिः, स्रुघ्नो भक्तिरस्य स्रौघ्नः |

१४७६ ।। अचित्ताददेशकालाट्ठक् । (४-३-९६)

अपूपा भक्तिरस्य आपूपिकः । पायसिकः । 'अचित्तात्' किम् । दैव- दत्तः । 'अदेशात्' किम् । स्रौघ्नः । 'अकालात्' किम् । ग्रैष्मः ।

१४७७ । महाराजाट्ठञ् । (४-३-९७)

माहाराजिकः ।

१४७८ । वासुदेवार्जुनाभ्यां वुन् । (४-३-९८)

वासुदेवकः । अर्जुनकः ।

१४७९ । गोत्रक्षत्रियाख्येभ्यों बहुळं वुञ् । (४-३-९९)

अणोऽपवादः । परत्वाद्वृद्धाच्छं बाधते । ग्लुचुकायनिर्भक्तिरस्य ग्लौचु- कायनकः । नाकुलकः । बहुळग्रहणान्नेह । पाणिन भक्तिरस्य पाणिनीयः ।


एभ्यः प्रथमान्तेभ्यः ढक्, छण्, ढञ्, यक्, एते स्यु. अस्याभिजन इत्यर्थे। भक्तिः ॥ अनुवर्तते इति । सोऽस्य भक्तिरित्यर्थे प्रथमान्तात्प्रत्ययाः स्युरित्यर्थः । अचित्ताददेश ।। देशकाल- व्यतिरिक्ताप्राणिवाचिनः ठक् स्यादुक्तविषये। अपूपाः भक्तिरिति । सामान्याभिप्रायं भक्ति- रित्येकवचनम् । वेदाः प्रमाणमितिवत् । पायसिक इति । पयो भक्तिरस्येति विग्रहः । महाराजाट्ठञ् ॥ सोऽस्य भक्तिरित्यर्थे इति शेषः । माहाराजिक इति । महाराजः भक्तिरस्येति विग्रहः । वासुदेव ॥ सोऽस्य भक्तिरित्येव । वासुदेवक इति ॥ वासुदेवो भक्तिरस्येति विग्रहः । एवमर्जुनकः । ननु वसुदेवस्यापत्यमित्यर्थे ‘ॠष्यन्धकवृष्णिकुरुभ्यश्च' इति वार्ष्णेयत्वादणि वासुदेवशब्दात् ‘गोत्रक्षत्रियाख्येभ्यो बहुळं वुञ्’ इति वुञैव सिद्धत्वाद्वासुदेवग्रहणं व्यर्थमिति चेत्, सत्यम् । अणन्तो वासुदेवशब्दोऽत्र न गृह्यते । किन्तु यस्मिन् समस्तं वसति यो वा समस्ते वसति स वासुः, स चासौ देवश्चेति व्युत्पत्त्या वासुदेवशब्दोऽयं भगवति योग- रूढ एवेति न दोषः । उक्तञ्च भाष्ये “नैषा क्षत्रियाख्या संज्ञैषा तत्रभवतः” इति । गोत्रक्षत्रिय ॥ गोत्रप्रत्ययान्तेभ्यः क्षत्रियवाचिभ्यश्च उक्तविषये बहुळं वुञ् स्यादित्यर्थः । इह न पारिभाषिकङ्गोत्रम्। छं बाधते इति ॥ औपगव इत्यादाविति शेषः । ग्लुचुकायनिरिति ॥ “प्राचामवृद्धात्' इति फिनि ग्लुचुकायनिशब्दः । नाकुलक इति ॥ क्षत्रियाख्योदाहरणम् ।