पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१२६

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
७७९
बालमनोरमा ।

छगलिना प्रोक्तमधीयते छागलेयिनः ।

१४९० । पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः । (४-३-११०)

णिनिः स्यात् । पाराशर्येण प्रोक्तं भिक्षुसूत्रमधीयते पाराशरिणो भिक्षवः। शैलालिनो नटाः।

१४९१ । कर्मन्दकृशाश्वादिनिः । (४-३-१११)

iभक्षुनटसूत्रयोः' इत्येव । कर्मेन्देन प्रोक्तमधीयते कर्मन्दिनो भिक्षवः। कृशाश्विनो नटाः ।

१४९२ । तेनैकदिक् । (४-३-११२)

सुदाम्ना अद्रिणा एकदिक् सौदामनी ।

१४९३ । तसिश्च । (४-३-११३)

खरादिपाठादव्यत्वम् । पीलुमूलेन एकदिक् पीलुमूलतः ।

१४९४ । उरसो यच्च । (४-३-११४)

चात्तसिः । अणोऽपवादः । उरसा एकदिक् उरस्य:-उरस्तः ।


छगलिन्शब्दादुक्तविषये ढिनुक्प्रत्ययः स्यादित्यर्थः । कलाप्यन्तेवासित्वात् प्राप्तस्य णिनेरपवादः । छागलेयिन इति । ककार इत्, उकार उच्चारणार्थः । ढिन् शिष्यते । ढस्य एय्, टिलोपः । ततोऽध्येतृप्रत्ययस्य लुगिति भावः । पाराशर्य ॥ णिनिः स्यादिति । उक्तविषये इति शेषः । मण्डूकप्लुत्या णिनिरेवानुवर्तते इति भावः । पाराशर्येण प्रोक्तं भिक्षुसूत्रमित्यर्थे, शला लिना प्रोक्तन्नटसूत्रमित्यर्थे च तृतीयान्ताण्णिनिः स्यादिति यावत् । भिक्षवः सन्यासिनः, तदधि कारिकं सूत्रं भिक्षुसूत्रं व्यासप्रणीतं प्रसिद्धम् । पाराशर्येणेति ॥ पराशरशब्दाद्भर्गा दित्वात् गोत्रे यञि पाराशर्यः व्यासः। इह त्वनन्तरापत्ये गोत्रत्वारोपाद्यञ्। तेन प्रोक्ते भिक्षुसूत्रे णिनिः, ततोऽध्येतृप्रत्ययस्य छस्य लुक् । पाराशरेिण इति ॥ जसि रूपम् । शैलालिन इति ॥ शिलालिन्शब्दात् नटसूत्रे प्रोत्ते णिनौ टिलोपे शिलालिन्शब्दादध्येतृ प्रत्ययस्याणो लुकि शैलालिन इति जसि रूपमिति भावः । कर्मन्द ॥ कर्मन्देन प्रोक्तं भिक्षुसूत्रमित्यर्थे कृशाश्वेन प्रोक्तन्नटसूत्रमित्यर्थे च तृतीयान्तादिनिः स्यादिति यावत् । प्रत्यये अन्त्य इकार उच्चारणार्थः । कर्मन्दशब्दादिनिः । ततोऽध्येत्रणो लुक् । एवं कृशाश्विनः । तेनैकदिक् ॥ सहार्थे तृतीया । एका दिक् अधिकरणात्मिका यस्य तदेकदिक् ।तेन सह

एकस्यान्दिशि विद्यमानमित्यर्थे तृतीयान्ताद्यथाविहितम्प्रत्ययाः स्युरित्यर्थः । सौदामनीति ॥ अणि * अन्’ इति प्रकृतिभावान्न टिलोपः । तसिश्च ॥ 'तेनैकदिक्' इत्यर्थे तृतीयान्तात्तसिश्च स्यादित्यर्थः । इकार उच्चारणार्थः । स्वरादिपाठादिति ॥ 'स्वरादिनिपातमव्ययम्' इति प्रकरणे ‘तद्धितश्चासर्वविभक्तिः’ इत्यत्र ‘तसिलादयः’ इति परिगणने तसेः पाठादित्यर्थः । उरसो