पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१२८

एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रकरणम्] बालमनोरमा । ७८१

तस्य स्थानमाग्रीध्रम् । तात्स्थ्यात्सोऽप्याग्रीध्रः । 'समिधामाधाने षेण्यण' (वा २९१२) । सामिधेन्यो मन्त्रः-सामिधेनी ऋक् ।

            १५०१ । रथाद्यत । (४-३-१२१)

रथ्यं चक्रम्

            १५०२ । पञ्चपूर्वाद्ञ् । (४-३-१२२)

पत्रं वाहनम् । अश्वरथस्येदमाश्वरथम् ।

            १५०३ । पञ्चाध्वर्युपरिषद्श्च । (४-३-१२३)
  अब् । 'पत्राद्वाहये' (वा २९०८) । अश्वस्येदं वहनीयमाश्वम् ।

आध्वर्यवम् । पारिषदम् ।

            १५०४ । हलसीराट्टक् । (४-३-१२४)

हालिकम् । सैरिकम् ।

            १५०५ । द्वन्डाडुन्वैरमैथुनिकयोः । (४-३-१२५)


शरणमित्यर्थे अग्रीच्छब्दात् षष्ठयन्तादण्, तस्मिन्परे भत्वञ्च वक्तव्यमित्यर्थः । शरणं गृहम् । अग्निभिन्धे अग्नीदिति ॥ ऋत्विग्विशेषोऽयम् । इन्धेः किप् । 'अनिदिताम्’ इति नलोपः । आग्रीध्रमिति ॥ सोमे महावदेरुत्तरार्धे पञ्चारन्निचतुरश्रस्थानविशेषसंज्ञेयम् । भत्वान्न जश्त्वम् । प्रत्ययस्वरेणान्तोदात्तोऽयं शब्दः । तैत्तिरीये ‘एतद्वै यज्ञस्यापराजित यदाम्री

ध्रमित्यादावाद्युदात्तत्वन्तु 'आग्रीध्रसाधारणादञ् चत्क्तव्यः’ इति स्वार्थिके अञि बोध्यम् ।

नन्वेवम् “ आग्नीध्रः प्रत्याश्रावयेत्” इत्यादौ कथमृत्विग्विशेषे आग्रीध्रशब्द । तत्राह । तात्स्थ्यादिति ॥ आग्रीध्राख्यदेशस्थत्वात् ऋत्विग्विशेषे आग्नीध्रशब्दो गौण इति भावः । समिधामिति ॥ आधीयते अनेनेत्याधानः मन्त्रः । आधानो मन्त्रः इत्यर्थे षष्ठयन्तात् समिच्छब्दात् षेण्यण्प्रत्ययो वाच्य इत्यर्थः । षत्वं डीषर्थमित्याह । सामिधेनी ऋगिति ॥ सामिधेन्यशब्दात् डीष् “हलस्तद्धितस्य' इति यलोपः । रथाद्यत् ॥ ‘तस्येदम्' इत्येव । रथ्यं चक्रमिति ॥ 'रथाद्रथाङ्गः’ इति वचनाच्चक्रमिति विशेष्यम् । पत्रपूर्वादञ् ॥ रथा- दित्येव । पत्रं वाहनमिति ॥ “पत्रं वाहनपक्षयोः' इति कोशः । पत्राध्वर्युपरिषदश्च ।। अञिति ॥ शेषपूरणम् । पत्त्रादिति । पत्राद्वाह्य एवेति वक्तव्यमित्यर्थः । आश्वमिति ॥ पत्रेत्यर्थग्रहणामिति भावः । आध्वर्यवम् । पारिषदमिति ॥ अध्वर्योरिदं परिषद इदमिति विग्रहः । हलसीराट्ठक् ॥ तस्येदमित्येव । हालिकम् । सैरिकमिति ॥ हलस्वेदं सीरस्येदमिति विग्रहः । द्वन्द्वादुन् ॥ वैरे मैथुनिकायाश्च इदन्त्वेन विवक्षिते द्वन्द्वात् षष्ठयन्तात् बुन् स्यादित्यर्थः । काकोलूकिकेति ॥ काकोलूकस्य वैरमित्यर्थः । बुनि स्त्रीत्वं लोकात् ।