अजादौ प्राग्दीव्यतीये प्रत्यये विवक्षिते युवप्रत्ययस्य लुक्स्यात् । ग्लुचुकस्य गोत्रापत्यं ग्लुचुकायनिः । वक्ष्यमाणः फिन् । ततो यून्यण् । ग्लौ चुकायनः :। तस्य च्छात्त्रोऽपि ग्लौचुकायनः । अणो लुकि वृद्धत्वाभावाच्छो न ।
१०८४ । पैलादिभ्यश्च । (२-४-५९)
एभ्यो युवप्रत्ययस्य लुक् । ' पीलाया वा' (सू ११२१) इत्यण् । तस्मात् 'अणो द्व्यचः' (सू ११८०) इति फिञ् । तस्य लुक् । पैलः पिता पुत्त्रश्च । 'तद्राजाच्चाण:' (ग २१) । “ व्द्यञ्मगध' इत्यण्णन्तादाङ्गशब्दात् अणो व्द्यचः' (सू ११८०) इति फिञो लुक् । आङ्गः पिता पुत्त्रश्च ।
१०८५ । इञः प्राचाम् । (२-४-६०)
युवप्रत्ययस्येति ॥ युवार्थकप्रत्ययस्येत्यर्थः । लुकः प्रत्ययादर्शनत्वात् प्रत्ययस्येति लभ्यत इति भावः । ननु ग्लुचुकस्य गोत्रापत्यं ग्लौचुकायनिरिति कथम् । ‘अत इञ्’ इति इञः प्राप्तरित्यत आह । वक्ष्यमाण इति ॥ “प्राचामवृद्धात् फिन् बहुळम्’ इत्यनेनेति शेषः । आयन्नादेश ग्लुचुकायनिरिति रूपमिति भावः । तत इति ॥ ग्लुचुकायनेरपत्यार्थे ‘तस्यापत्यम्’ इत्यणि आदि वृद्धौ “यस्येति च' इति लोपे ग्लौचुकायन इति रूपमित्यर्थः । ननु युवापत्यस्याणः “यस्येति च ' इति लोपेनैव छात्रार्थे ग्लैौचुकायन इति रूपसिद्धेस्तस्य लुग्विधिरनर्थक इत्यत आह । अणो लुकीति ॥ छात्रार्थकछप्रवृत्तेः प्रागेव युवप्रत्ययस्याणो लुकि आदिवृद्धेर्निवृत्तौ ग्लुचुकायनि शब्दस्य वृद्धत्वाभावात् छो न भवति । युवप्रत्ययस्य लुगभावे तु वृद्धत्वात् छः स्यात् । एतदर्थमेव युवप्रत्ययस्य लुग्विधानमित्यर्थः । स्थितश्चातुरर्थिको युवप्रत्ययलुक् । तत्प्रसङ्गाद्वैतीयीको युवप्रत्ययलुगनुक्रम्यते|पैलादिभ्यश्च| 'ण्यक्षात्रियार्ष' इत्यतो यूनि लुक् इत्यनुवर्तते तदाह । एभ्यो युवप्रत्ययस्य लुगिति ॥ अजादिप्रत्यये अविवक्षितेऽपि प्राप्त्यर्थमिदम् । पीलाया इति ॥ पीलाया गोत्रापत्यमित्यर्थे ‘स्त्रीभ्यो ढक्' इति ढकम्बाधित्वा “पीलाया वा इत्यणित्यर्थः । तस्मादिति ॥ पैलस्यापत्यं युवेत्यर्थे 'पैलादिभ्यश्च' इति लुक् । 'अणो द्यचः इति फिञः इत्यर्थः । पीलाया गोत्रापत्यस्यापत्यं पीलाया युवापत्यमिति पर्यवस्यति । तस्येति । तस्य युवार्थकफिञ्प्रत्ययस्य अनेन लुगित्यर्थ पीलाया गोत्रापत्ये युवापत्ये च पैलशब्द इत्याह । पैलः पिता पुत्त्रश्चेति ॥ यूनः पिता युवा चेत्यर्थः । 'तद्राजाच्चाणः’ इति पैलादिगणसूत्रम् । तद्राजप्रत्ययात्परस्य युवप्रत्ययस्याणो लुगित्यर्थः । द्व्यञ्मगधेति । अङ्गशब्दो देशविशेषे । तस्य राजा आङ्गः । तस्य गोत्रापत्यमप्याङ्गः । ' द्यञ्जमगध' इत्यण्। तस्यापत्य युवाप्याङ्ग एव । ' अणो द्व्यचः' इति फिञ् । तस्यानन लुक् । इअः प्राचवाम् ॥ इञः इति पञ्चमी । प्रत्ययत्वात्तदन्तग्रहणम् । “ण्यक्षत्रिय' इत्यतो यूनि लुगित्यनुवर्तते । इञन्तात्परस्य युवप्रत्ययस्य लुगित्यर्थः । अर्थादिञो गोत्रार्थकत्वं लभ्यते । तदाह । गोत्रे