पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/१६४

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
८१७
बालमनोरमा ।

परितः पौरुषेयवृता इव' इति माधः । तेन कृते ग्रन्थेऽणि प्राप्ते, अग्रन्थे तु प्रासादादावप्राप्त एवेति विवेकः ।

१६७३ । माणवचरकाभ्यां खञ् । (५-१-११)

माणवाय हितं माणवीनम् । चारकीणम् ।

१६७४ । तदर्थं विकृतेः प्रकृतौ । (५-१-१२ )

विकृतिवाचकच्चतुर्थ्यन्तात्तदर्थायां प्रकृतौ वाच्यायां छप्रत्ययः स्यात्। अङ्गारेभ्यः एतानि अङ्गारीयाणि काष्ठानि । प्राकारीया इष्टकाः । शङ्कव्यं दारु ।

१६७५ । छदिरुपधिबलेर्ढञ् । (५-१-१३)

छादिषेयाणि तृणानि । बालेयास्तण्डुलाः ।'उपधिशब्दात्स्वार्थे इष्यते (वा ३००३) । उपधीयते इत्युपधिः रथाङ्गं, तदेव औपधेयम् ।


आदर्शप्रतिफलनादिति भावः । तेन कृते इति । पुरुषेण कृतो प्रन्थ इत्यर्थे कृते प्रन्थे इत्यणि प्राप्ते पुरुषेण कृतः प्रासाद इत्यर्थे तु कस्मिन्नपि प्रत्यये अप्राप्ते अनेन ढञित्यर्थः । माणव । आभ्याश्चतुर्थ्यन्ताभ्यां हितमित्यर्थे खञ् स्यादित्यर्थः । माणवीनमिति ॥ मनोः कुत्सितमपत्यं माणवः । “अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकोऽण् स्मृतः । नकारस्य च मूर्धन्यस्तेन सिध्यति माणवः ।” इत्यपत्याधिकारवार्तिकात् माणवाय हितमिति विग्रहः । चारकीणमिति ॥ चरतीति चरः पचाद्यच् । ततः स्वार्थिकः कः, चरकाय हितमिति विग्रहः । तदर्थे विकृतेः प्रकृतौ । तदर्थमिति सामान्ये नपुंसकम् । तस्मै इदं तदर्थम् । तच्छब्देन विकृतिः परामृश्यते । सप्तम्यर्थे प्रथमा । विकृत्यर्थायां प्रकृताविति लभ्यते । एवञ्च तच्छब्देन चतुर्थ्यन्तेन विकृतिरेव प्रथमं निर्दिश्यते । तथाच चतुर्थ्यन्तात् विकृतिवाचकादिति लभ्यते । तदाह । विकृतिवाचकादित्यादिना । प्रत्ययः स्यादिति । यथाविहितमिति शेषः । अङ्गारेभ्य एतानीति । अङ्गारार्थानीत्यर्थः । अर्थेन नित्यसमासविधानादस्वपदविग्रहः । अत्र काष्ठानि प्रकृतिद्रव्याणि । अङ्गाराः विकृतयः । तद्वाचकादङ्गारशब्दाच्छप्रत्यये अङ्गारीयाणीति रूपम् । प्राकारीया इष्टका इति । प्राकारेभ्य इमा इति विग्रहः । प्राकारार्था इत्यर्थः । शङ्कव्यमिति ॥ शङ्कवे इदमिति विग्रहः । शङ्कर्थमित्यर्थः । 'उगवादिभ्यः’ इति यत् । छदिरुपधिबलेर्ढञ् ॥ छदिप्, उपधि, बलि, एषां समाहारद्वन्द्वे सौत्रं पुंस्त्वम् । एभ्यः तादर्थ्यचतुर्थ्यन्तेभ्यः प्रकृतौ वाच्यायां ढञित्यर्थः । छादिषेयाणीति ॥ छदिः तृणपटलः । तस्मै इमानीति विग्रहः । छदिरर्थानीत्यर्थः । ढञि एयादेशे पात्परत्वाण्णत्वम् । बालेया स्तण्डुला इति ॥ बलये इमे इत्यर्थः। बल्यर्था इत्यर्थः । “करोपहारयोः पुंसि बालः' इत्यमरः । भागधेयः करो बलिः” इति च । उपधिशब्दादिति ॥ वार्तिकमिदम् । उपधीयते इति ॥ अक्षदण्डाग्रे उपधीयते प्रोतं क्रियते इत्युपधिः । “उपसर्गे घोः कि:’ इति धाञः ४४ 103