पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/४८

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
७०१
बालमनोरमा ।

११८१ । उदीचां वृद्धाद्गोत्रात् । (४-१-१५७)

आम्रगुप्तायनिः । प्राचां तु आम्रगुप्तिः । 'वृद्धात्' किम् । दाक्षिः । अगोत्रात्’ किम् । औपगविः ।

११८२ । वाकिनादीनां कुक्च । (४-१-१५८)

अपत्ये फिञ्वा । वाकिनस्यापत्यं वाकिनकायनिः-वाकिनिः ।

११८३ ।। पुत्रान्तादुन्यतरस्याम् । (४-१-१५९)

अस्माद्वा फिञ्सिद्धस्तस्मिन्परे पुत्रान्तस्य वा कुग्विधीयते । गार्गीपुत्र कायणिः—गार्गीपुत्रायणिः—गार्गीपुत्रिः ।

११८४ । प्राचामवृद्धाफिन्बहुळम् । (४-१-१६०)

ग्लुचुकायनिः ।

११८५ । मनोजतावज्यतौ षुक्च । (४-१-१६१)

समुदायार्थो जातिः । मानुषः-मनुष्यः ।

११८६ ।। जनपदशब्दात्क्षत्रियादञ् । (४-१-१६८)


इत्येव सिद्धेः, भाष्ये अस्य वार्तिकस्य अदर्शनाच । उदीचां वृद्धादगोत्रात् ॥ वृद्धसंज्ञकात् अगोत्रप्रत्ययान्तात्फिञ् स्यात् उदीचाम्मते इत्यर्थः । आम्रगुप्तायनिरिति । आम्रगुप्त स्यापत्यमिति विग्रहः । प्राचां त्विति । मते इति शेषः । आम्रगुप्तिः । अत इञ् । औपग विरिति । उपगोर्गोत्रापत्यम् औपगवः, तस्यापत्यं युवा औपगविः । औपगवस्य गोत्रत्वात्ततो यूनि फिञ्जभावे इञेवेति भावः । वाकिनादीनाम् ॥ शेषपूरणेन सूत्रं व्याचष्टे । अपत्ये फिञ्वेति ॥ चकारादुदीचामिति फिजिति चानुवर्तत इति भावः । तथाच वाकिनादिभ्यः फिञ् वा स्यात्, प्रकृतीनाङ्कगागमश्चेति फलितम् । पुत्त्रान्तादन्यतरस्याम् ॥ स्पष्टम् । प्राचामवृद्धात् ॥ अवृद्धसंज्ञकात् अपत्ये बहुळम्फिञ् स्यादित्यर्थः । प्राचाङ्गहणम्पूजार्थम् । ग्लुचुकायनिरिति । ग्लुचुकस्यापत्यमिति विग्रहः । अवृद्धात्किम् । राजदन्तिः । बहुळ ग्रहणान्नेह । दाक्षिः । मनोजतौ ॥ मनुशब्दात् अञ् यत् एतौ प्रत्ययौ स्तः, तयोष्षुगागमश्रे त्यर्थः । प्रकृतिप्रत्ययसमुदायेन जातौ गम्यायामित्यर्थः । तदाह । समुदायार्थो जातिरिति । नात्रापत्यग्रहणं सम्बछद्यते इति भावः । अन्यथा मानुषा इत्यत्र “यञ्जओश्च' इति लुक् स्यादिति बोद्यम् । जनपदशब्दात् ॥ जनपदो देशः, तद्वाचकशब्दो जनपदशब्दः, तथाभूतो यः क्षत्रियवाचकशब्दः, तस्मादित्यर्थः । फलितमाह । जनपदक्षत्त्रिययोरिति ॥ ऐक्ष्वाक इति ॥ इक्ष्वाकुनर्नाम देशः, राजा च । तस्य राज्ञोऽपत्यमिति बिग्रहे अञ्, अणोऽपवादः