पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/५८

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
७११
बालमनोरमा ।

वस्त्रैः परिवृतो वास्त्रो रथः । 'रथः' किम् । वस्त्रेण परिवृतः कायः । समन्ताद्वेष्टितः परिवृत उच्यते । तेनेह न । छात्रैः परिवृतो रथः ।

१२१२ । पाण्डुकम्बलादिनिः । (४-२-११)

पाण्डुकम्बलेन परिवृतः पाण्डुकम्बली । पाण्डुकम्बलशब्दो राजास्तर- णवर्णकम्बलस्य वाचकः । मत्वर्थीयेनैव सिद्धे वचनमणो निवृत्त्यर्थम् ।

१२१३ । द्वैपवैयाघ्राद्ञ् । (४-२-१२)

द्वीपिनी विकारो द्वैपम् । तेन परिवृतो द्वैपो रथः । एवं वैयाघ्रः ।

१२१४ । कौमारापूर्ववचने । (४-२-१३)

“कौमार’ इत्यविभक्तिको निर्देशः । अपूर्वत्वे निपातनमिदम् । अपूर्व- पतिं कुमारीं पतिरुपपन्नः कौमारः । यद्वा । अपूर्वपतिः कुमारी पतिमुपपन्ना कौमारी भार्या ।

१२१५ । तत्रोद्धृतममत्रेभ्यः । (४-२-१४ )


तेन परिवृतो रथः इत्यर्थे तृतीयान्तादणादयः स्युरित्यर्थः । ननु छात्रैः परिवृतो रथः इत्यत्रापि स्यादित्यत आह । समन्ताद्वेष्टितः परिवृत इत्युच्यते इति । रथस्य समन्तादाच्छा- दनार्थे यद्वस्त्रादिकं रथावयवभूतं तद्वाचकादेवेत्याशयः । एकान्तग्रहणमिति वार्तिकात् । पाण्डुकंबलादिनिः । तेनेति परिवृतो रथ इति चानुवर्तते । इनिप्रत्यये नकारादिकार उच्चारणार्थः । ननु “अत इनिठनौ' इति मत्वर्थीयेन इनैव सिद्धे किमर्थमिदमित्यत आह । अणो निवृत्त्यर्थमिति । द्वैपवैयाघ्रादञ् ॥ तेनेति परिवृतो रथ इति चानुवर्तते । तृतीयान्तात् द्वैपशब्दाद्वैयाघ्रशब्दाच्च परिवृतो रथ इत्यर्थे अञ् स्यादित्यर्थः । अणोऽपवादः । स्वरे विशेषः । द्वीपिन इति । द्वीपी व्याघ्रः, तस्य विकारः चर्मेत्यर्थे “प्राणिरजतादिभ्यः" इत्यञि टिलोपे द्वैपशब्द इत्यर्थः । एवं वैयाघ्र इति । व्याघ्रस्य चर्म, वैयाघ्रम् । अञि ‘न य्वाभ्याम्' इत्यैच् । तेन परिवृतो वैयाघ्र इति भावः । कौमारापूर्ववचने । तेनेति परिवृतो रथ इति च निवृत्तम् । अविभक्तिक इति ॥ लुप्तप्रथमाक इति भावः । अपूर्व- शब्दो भावप्रधान इत्याह । अपूर्वत्वे निपातनमिदमिति ॥ न पूर्वः पतिर्यस्याः सा अपूर्वपतिः, ताङ्कुमारीमुपयतवान् पतिरित्यर्थे द्वितीयान्तात् कुमारीशब्दादण् स्यादित्येकोऽर्थः । कुमारी अपूर्वम्पतिमुपपन्नेत्यर्थे प्रथमान्तात्कुमारीशब्दादण् स्यादित्यन्योऽर्थः । आद्ये उदाहरति । अपूर्वपतिमिति । द्वितीये उदाहरति । यद्धेत्यादि । आद्ये उपयन्तरि प्रत्ययः । द्वितीये उपयतायां स्वार्थे प्रत्यय इति विवेकः । तत्रोद्धृतम् ॥ तत्रोद्धृतमित्यर्थे अमत्रवाचकशब्दात् सप्तम्यन्तात् प्रत्ययः स्यादित्यर्थः । अमत्रं भाजनं शरावादि । ननु उद्धरणे पृथकरणे