पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/७५

एतत् पृष्ठम् परिष्कृतम् अस्ति
७२८
[चातुरर्थिक
सिद्धान्तकौमुदीसहिता

आख्यायिका वासवदत्ता । 'अधिकृत्य कृते ग्रन्थे' (सू १४६७) इत्यर्थे वृद्धाच्छ:' (सू १३३७) तस्य “लुबाख्यायिकाभ्यो बहुलम्' इति लुप् । ततोऽनेन ठक् । वासवदत्तिकः । ऐतिहासिकः । पौराणिकः । 'सर्वादेः सादेश्च लुग्वक्तव्यः' (वा २७४८) । सर्ववेदानधाते सर्ववेदः । सर्वतन्त्रः । सवार्तिकः । 'द्विगोर्लुक्-' (सू १०८०) इति लुक् । द्वितन्त्रः । “इकन्प दोत्तरपदाच्छतषष्टेः टिकन्पथः' (वा २७४९-२७५०) । पूर्वपदिकः । उत्तरपदिकः । शतपथिकः-शतपथिकी । षष्टिपथिकः-षष्टिपथिकी ।

१२७१ । क्रमादिभ्यो वुन् । (४-२-६१)

क्रमकः । क्रम पद शिक्षा मीमांसा क्रमादिः ।

१२७२ । अनुब्राह्मणादिनिः । (४-२-६२)

'तदधीते तद्वेद' (सू १२६९) इत्यर्थे । ब्राह्मणसदृशो ग्रन्थोऽनुब्राह्मणी । मत्वर्थीयेनैव सिद्धेऽण्बाधनार्थमिदम् ।

१२७३ । वसन्तादिभ्यष्ठक् । (४-२-६३)


इति ॥ उक्तप्रत्ययस्येति शेषः । सर्ववेद इति ॥ अणो लुकि आदिवृध्द्यभावः । सर्व तन्त्र इति ॥ सर्वतन्त्राण्यधीते वेद वेत्यर्थः । सवार्तिक इति ॥ वार्तिकेन सह सवार्तिकम् । 'तेन सह' इति बहुव्रीहिः । 'वोपसर्जनख्य ' इति सभावः । सवार्तिकं सूत्रमधीते इत्यर्थः । द्विगुरिति ॥ द्वे तन्त्रे अधीते वेत्ति वेत्यर्थे तद्धितार्थे द्विगुनिमित्तत्वा- दणो लुकि आदिवृध्द्यभावे द्वितन्त्र इति रूपमित्यर्थः । इकन्पदोत्तरपदादिति ॥ पद शब्दः उत्तरपदं यस्य सः पदोत्तरपदः । तस्मादुक्त्तेऽर्थे इकन्प्रत्ययो वक्तव्यः । शतषष्टेष्टिकन्पथ इति ॥ शतशब्दात् षष्टिशब्दाच्च परो यः पथिन्शब्दः तस्मात् उक्त्तेऽर्थे टिकन्प्रत्ययो वक्तव्य इत्यर्थः । पूर्वपदिक इति ॥ पूर्वपदमधीते वेत्ति वेत्यर्थः । एवमुत्तरपदिकः । शतपथिक इति ॥ शतपथं नाम वाजसनेयिब्राह्मणम् । तदधीते वेत्ति वेत्यर्थः । शत पथिकीति ॥ टित्वात् डीबिति भावः । एवं षष्टिपथिकः । षष्टिपथिकीति । क्रमा दिभ्यो वुन् ॥ 'तदधीते तद्वेद' इत्यर्थे इति शेषः । क्रमक इति ॥ क्रममधीते वेति वेत्यर्थः । क्रमादिगणम्पठति । क्रमेत्यादि । क्रमादिरिति । अयं क्रमादिगण इत्यर्थः । पदकः शिक्षकः मीमांसकः इत्युदाहरणानि । अनुब्राह्मणादिनिः ॥ शेषपूरणेन सूत्र व्याचष्टे । तदधीते तद्वेदेत्यर्थे इति ॥ इनिप्रत्यये नकारादिकार उच्चारणार्थः । तथाच नकारस्यो पदेशेत्यत्वाभावान्नेत्संज्ञा । ननु 'अत इनिठनौ' इति मत्वर्थे इनिनैव सिद्धत्वादिदं व्यर्थमित्यत आह । अण्बाधनार्थमिति ॥ भाष्ये तु प्रत्याख्यातमेवेदम् । वसन्तादिभ्यष्टक् ॥