पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/७९

एतत् पृष्ठम् परिष्कृतम् अस्ति
७३२
[अपत्याधिकार
सिद्धान्तकौमुदीसहिता

१२७९ । तदस्मिन्नस्तीति देशे तन्नाम्नि । (४-२-६७)

उदुम्बराः सन्त्यस्मिन्देशे औदुम्बर

१२८० । तेन निर्तृत्तम् । (४-२-६८)

कुशाम्बेन निवृत्ता कौशाम्बी नगरी ।

१२८१ । तस्य निवासः । (४-२-६९)

शिबीनां निवासो देश: शैबः ।

१२८२ । अदूरभवश्च । (४-२-७०)

विदिशाया अदूरभवं नगरं वैदिशम् । चकारेण प्रागुक्तास्रयोऽर्थाः सन्निधाप्यन्ते, तेन वक्ष्यमाणप्रत्ययानां चातुरर्थिकत्वं सिध्द्यति

१२८३ । ओरञ् । (४-२-७१)

अणोऽपवादः । कक्षतु-काक्षतवम् । नद्यास्तु परत्वान्मतुप् । इक्षुमती ।

१२८४ । मतोश्च बह्वजङ्गात्। (४-२-७२)

बह्वच अङ्गं यस्य मतुपस्तदन्तादञ् । नाण् । सैध्रकावतम् । “बह्वच् इति किम् । आहिमतम् । “अङ्ग' ग्रहणं 'बह्वच्’ इति तद्विशेषणं यथा स्यान्मत्वन्तविशेषणं मा भूत् ।


प्रत्ययान् वक्तुमुपक्रमते । तदस्मिन्नस्तीति ॥ तदस्मिन्नस्तीत्यर्थे प्रथमोचारितादणादयः स्युः । प्रत्ययान्तेन प्रकृतिनामके देशे गम्ये इत्यर्थः । प्रसिद्धदेशग्रहणार्थ इतिशब्दः । मतुपोपवादः । तेन निर्तृत्तम् । देशे तन्नाम्नीत्यनुवर्तते । तेन निवृत्तमित्यर्थे तृतीयान्तादणादयः स्युः तन्नान्नि देशे इत्यर्थः । तस्य निवासः ॥ तन्नान्नि देशे इत्येव । तस्य निवासः इत्यर्थे षष्ठयन्तादणादय स्युः तन्नाम्नि देशे इत्यर्थः । स्वत्ववान् विषयः । निवासस्तु वसतिमात्रं स्वत्वास्वत्वसाधारण मित्याहुः । अदूरभवश्च ॥ तस्येति तन्नान्नि देशे इति चानुवर्तते । तस्य अदूरभव इत्यर्थे षष्ठ्यान्तादणादयः स्युः तन्नाम्नि देशे इत्यर्थः । नन्वत्र चकारः किमर्थ इत्यत आह । चकारे णेति ॥ अदूरभवः इति विध्यनन्तरम्प्रागुक्तास्त्रयोर्थाः पुनरुपस्थाप्यन्ते इत्यर्थः । किमर्थमित्यत आह । तेनेति । अन्यथा सन्निहितत्वात् अदूरभव इत्येव उत्तरविधिष्वनुवर्तते इति भावः । चातुरार्थिकत्वमिति ॥ चतुरर्थ्याम्भव इत्यर्थे द्विगोरध्द्यात्मादित्वाद्वक् । तद्धितार्थद्विगौ तु द्विगोर्लुगनपत्ये' इति लुक् स्यात्। केचित्तु चतुर्णो सूत्राणामर्थाश्चतुरर्थाः, तत्रभवाश्चातुरर्थिका इत्याहुः । ओरञ् ॥ ‘तदस्मिन्नस्ति' इत्यादि चतुष्वर्थेषु प्रथमोच्चारितात्तत्तद्विभक्त्यन्तादञ् स्यात्, अणोऽपवादः । अनधिकारः 'सुवास्त्वादिभ्योऽण्’ इति यावत् । काक्षतवमिति ॥ कक्षतुरस्मिन्नस्तीत्यादि विग्रहः । मतोश्च ॥ सैध्रकावतमिति ॥ सिध्रकावानस्मिन्नस्तीत्या दयश्चत्वारोऽर्थाः यथायोगम्बोध्याः । आहिमतमिति ॥ अहिमानस्मिन्नस्तीत्यादयोऽर्थाः ।