पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/८०

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
७३३
बालमनोरमा ।

१२८५ । बह्वचः कूपेषु । (४-२-७३)

अणोऽपवादः । दीर्घवरत्रेण निवृत्तो दैर्घवरत्रः कूपः ।

१२८६ । उद्क्च विपाशः । (४-२-७४)

विपाशः उत्तरे कूले ये कूपास्तेष्वञ् । अबह्वजर्थ आरम्भः । दन्तेन निवृत्तो दान्तः कूपः । 'उद्क्’ किम् । दक्षिणतः कूपेष्वणेव ।

१२८७ । सङ्कलादिभ्यश्च । (४-२-७५)

कूपेषु' इति निवृत्तम् । सङ्कलेन निवृत्तं साङ्कलम् । पौष्कलम् ।

१२८८ । स्त्रीषु सौवीरसाल्वप्राक्षु । (४-२-७३)

स्त्रीलिङ्गेष्वेषु देशेषु वाच्येष्वञ् । सौवीरे दत्तामित्रेण निवृत्ता दात्ता मित्री नगरी । साल्वे वैधूमाग्री । प्राचि माकन्दी ।

१२८९ । सुवास्त्वादिभ्योऽण् । (४-२-७७)

अञ्जोऽपवादः । सुवास्तोरदूरभवं सौवास्तवम् । वर्ण-वार्णवम् । अण्ग्रहणं नद्यां मतुपो बाधनार्थम् । सौवास्तवी ।

१२९० । रोणी । (४-२-७८)

रोणीशब्दात्तदन्ताच्चाण् । कूपाञोऽपवादः । रौणः । आजकरौणः ।


अहिशब्दस्य द्यच्कत्वादञ् नेति भावः । वह्वचः कूपेषु ॥ बह्वचः प्रातिपदिकात् अञ् चतु र्ष्वर्थेषु, अणोऽपवादः । दीर्घवरत्रेण निर्वृतः कूपः दैर्घवरत्रः । उदक्च विपाशः ॥ विपाशा उत्तरे कूले इति ॥ विपाश्शब्दः शकारान्तो नदीविशेषवाची । सङ्कलादिभ्यश्च ॥ नि वृत्तमिति ॥ व्याख्यानादिति भावः । यथा दाराः इत्यादौ शास्त्रीयपुस्त्वविशिष्टस्यैव स्त्रीरूपार्थस्य भानम् । तथा लुपि सति शास्त्रीयप्रकृत्यर्थगतालिङ्गसङ्खयाविशिष्टस्यैव स्वार्थस्य लोकव्यवहारादेव भानं सम्भवति, नतु तदशे शास्रव्यापारापेक्षेति भावः । अणोऽपवादः । पौष्कलमिति ॥ पुष्कलेन निवृत्तमिति विग्रहः । स्त्रीषु सौवीर ॥ सौवीरे इति ॥ उदाहरणं वक्ष्यते इति शेषः । दात्तामित्री नगरीति ॥ ‘टिड्ढ' इति डीप् । साल्वे इति । उदाह्रियते इति शेषः । वैधूमाग्नीति ॥ विधूमाग्निना निवृत्तेत्यर्थः । आञ्जि डीप् । प्राचीति । प्राचि देश उदाह्रियते इत्यर्थः । माकन्दीति । माकन्देन निवृत्तेत्यर्थः । सुवास्त्वादिभ्योऽण् ॥ अञ्ज इति ॥ ओरञित्यापवाद इत्यर्थः । सौवास्तवमिति ॥ आणि ओर्गुणः । वार्णवमिति ॥ वर्णोर दूरभाव्मित्यर्थः ननु “ओरञ्' इत्येव सिद्धे पुनर्विधिसामथ्र्यादेव तदननुवृत्तौ अणि सिध्दे पुन रण्ग्रहणं व्यर्थमित्यत आह । अण्ग्रहणमिति ॥ रोणी ॥ लुप्तपञ्चमीकमिदम् । तदन्ता दिति ॥ 'येन विधिः' इति सूत्रस्थभाष्यादिह प्रत्ययविधावपि तदन्तविधिरिति भावः । रौण