पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-१).djvu/८८

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
७४१
बालमनोरमा ।

१३१३ । राष्ट्रावारपाराद्धखौ । ४-२-९३)

आभ्यां क्रमाद्धखौ स्तः शेषे । राष्ट्रियः, अवारपारीणः । “ अवारपाराद्विगृहीतादपि विपरीताच्चेति वक्तव्यम्’ (वा २७७१-२७७२) । अवारीणः । पारीणः । पारावारीणः । इह प्रकृतिविशेषाद्धादयष्ट्युट्युलन्ताः प्रत्यया उच्यन्ते । तेषां जातादयोऽर्थविशेषाः समर्थविभक्तयश्च वक्ष्यन्ते ।

१३१४ । ग्रामाद्यखञौ । (४-२-९४)

ग्राम्य:-ग्रामीणः ।

१३१५ । कत्त्र्यादिभ्यो ढकञ् । (४-२-९५)

कुत्सितास्त्रयः कत्रय: । तत्र जातादिः कात्रेयकः । नागरेयकः ।'ग्रामात्' इत्यनुवृत्तेग्रामेयकः ।


भाष्यात् । प्रपञ्चितञ्चैतत् “तस्यापत्यम्' इत्यत्र “तस्येदमित्यपत्येऽपि' इत्यादिश्लोकवार्तिकव्याख्यावसरे । राष्ट्रावारपाराद्धखौ ॥ आभ्यामिति ॥ राष्ट्रशब्दादवारपारशब्दाच्चेत्यर्थः । राष्ट्रिय इति । राष्ट्रे जातः भवः इत्यादिरर्थो यथायोगम्बोध्यः । घस्य इयः । अवारपारीण इति ॥ खस्य ईनादेशः, णत्वम् । अवारपाराद्विगृहीतादपीति ॥ अवारशब्दात्पारशब्दाच्च पृथग्भूतादपि खो वक्तव्य इत्यर्थः । विपरीताच्चेति ॥ पारावारशब्दादपीत्यर्थः । ननु राष्ट्रावारपारेत्यारभ्य 'विभाषा पूर्वालह्णापराह्णाभ्याम्' इत्यन्तैः सूत्रैः राष्ट्रादिशब्देभ्यः प्रकृतिभ्यः शेषेऽर्थे प्रत्यया विहिताः । तस्यापत्यमित्यादिवदर्थविशेषास्तु न निर्दिश्यन्ते । यत्किश्चिद्विभक्त्यन्तेभ्यः राष्ट्रादिप्रकृतिविशेषेभ्यः घादयः ट्युट्युलन्ताः प्रत्ययाः स्युः । 'समर्थानाम्प्रथमाद्वा' इत्यस्यानुपस्थित्या प्रथमोच्चारितविभक्तिविशेषानुपस्थितेः । किञ्च 'तत्र जातः’ इत्यादिसूत्रेषूत्तरेषु अर्थविशेषा एव निर्दिष्टाः । तत्र प्रथमोच्चारितसप्तम्यन्तादितत्तद्विभक्त्यन्तेभ्यः सर्वेभ्यः साधारणा अणादय एव स्युः । तत्राह । इह प्रकृतीत्यादिना राष्ट्रावारेत्यादिसूत्राणां प्रकृतिविशेषेभ्यः केवलप्रत्ययविधीनां अर्थविशेषप्रकृतिविशेषविभक्तिविशेषाकांक्षायां ‘तत्र जातः’ इत्यादि सूत्राणान्तु केवलमर्थविशेषनिर्देशपराणां ‘समर्थानाम्’ इति सूत्रलब्धतत्तद्विभक्तिकप्रकृतिविशेषाणां विधेयप्रत्ययविशेषाकाङ्कायां परस्परमेकवाक्यत्वे सति तत्र जातः इत्याद्यर्थेषु प्रथमोच्चारिततत्तद्विभक्तयन्तेभ्यः राष्ट्रादिशब्देभ्यो घादयः ट्युट्युलन्ताः प्रत्ययाः स्युरिति लभ्यत इति भावः । राष्ट्राद्यन्याभ्यस्तु प्रकृतभ्यो जाताद्यर्थेषु अणादयः साधारणा भवन्त्येव । ग्रामाद्यखञौ ।। ग्राम्य इति । यप्रत्यये 'यस्येति च' इति लोपः । ग्रामीण इति ॥ खञ ईनादेशः, णत्वम् । कत्र्यदिभ्यो ढकञ् । कत्त्रय इति । “कुगतिप्रादयः' इति कुशब्दस्य समासः । ‘त्रौ च' इति कोः कदादेशः । कात्त्रेयक इति । ढकञ्, ढकारस्य एयादेशः “लोपो व्योः’ इति यलोपः । अनुवृत्तेरिति । स्वरितत्वादिति भावः । तथाच ग्रामशब्दात्, ढकञपि