पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/१०

पुटमेतत् सुपुष्टितम्
८३६
[कालाधिकार
सिद्धान्तकौमुदीसहिता

अथ तद्धिते प्राग्वतीये ठञधिकारे कालाधिकारप्रकरणम् ।

 अतः परं ठञेव ।

१७३६ । पारायणतुरायणचान्द्रायणं वर्तयति । (५-१-७२)

 पारायणं वर्तयति पारायणिकश्छात्रः । तुरायणं यज्ञविशेषः । तं वर्तयति तौरायणिको यजमानः । चान्द्राययणिकः ।

१७३७ । संशयमापन्नः । (५-१-७३)

 संशयविषयीभूतोऽर्थः सांशयिकः ।

१७३८ । योजनं गच्छति । (५-१-७४)

 यौजनिकः । 'क्रोशशतयोजनशतयोरुपसङ्ख्यानम्' (वा ३०५५) । क्रोशशतं गच्छति क्रौशशतिकः । यौजनशतिकः । 'ततोऽभिगमनमर्हतीति च वक्तव्यम्' (वा ३०५६) । क्रोशशतादभिगमनमर्हतीति क्रौशशतिको भिक्षुः । यौजनशतिक आचार्यः ।

१७३९ । पथः ष्कन् । (५-१-७५)

 षो ङीषर्थः । पन्थानं गच्छति पथिकः । पथिकी ।


अथ तद्धिते प्राग्वतीये ठञधिकारे कालाधिकारः निरूप्यते—अतः परं ठञेवेति ॥ आर्हीयेष्वर्थेषु प्राग्वतीयठञपवादा आर्हीयाष्टगादयः आर्हीयार्थेषु निरूपितेषु ततः ऊर्ध्वं ठगादिप्रत्ययानाम् अनुवृत्तेरसम्भवात् प्राग्वतीये ठञेवानुवर्तते इत्यर्थः । पारायण ॥ द्वितीयान्तेभ्यः पारायणादिशब्देभ्यः वर्तयतीत्यर्थे ठञ् स्यादित्यर्थ । पारायणं वर्तयतीति ॥ पारायणं वेदाध्ययनम् । तद्वर्तयति आवर्तयतीत्यर्थः । पारायाणिकः छात्त्र इति ॥ गुरौ त्वध्येतरि नायम्प्रत्ययः । अनभिधानादिति भावः । तौरायणिको यजमान इति ॥ ऋत्विजि नाय म्प्रत्ययः । अनभिधानादिति भावः । चान्द्रायणिक इति ॥ चान्द्रायणं वर्तयतीत्यर्थः । चान्द्रायणङ्कृच्छ्रविशेषः । संशयमापन्नः॥ अस्मिन्नर्थे संशयशब्दात् द्वितीयान्ताट्ठक् स्यादित्यर्थः । अत्र आपन्न इति कर्तरि क्तः । विषयतया प्राप्त इत्यर्थः । उपसर्गवशात् संशयविषयीभूतोऽर्थ इति । तेन समवायेन संशयाधारे सन्देग्धरि नायम्प्रत्यय इति भावः । अमरस्तु “सांशयिकः संशयापन्नमानसः” इत्याह । योजनङ्गच्छति ॥ द्वितीयान्ताद्योजनशब्दात् गच्छतीत्यर्थे ठञ् स्यादित्यर्थः । क्रोशशतेति ॥ आभ्यामपि द्वितीयान्ताभ्याङ्गच्छतीत्यर्थे ठञ उपसङ्ख्यानमित्यर्थः। क्रोशशतादिति ॥ ल्यब्लोपे पञ्चमी । क्रोशशतमतीत्येत्यर्थः पथः ष्कन् ॥ पथः ष्कन् इति छेदः । द्वितीयान्तात् पथिन्शब्दात् गच्छतीत्यर्थे ष्कन् स्यादित्यर्थः। पन्थो ण